Spread the love

बुध ग्रह को प्रसन्न करने के लिए यह 25 नाम शुभ फलप्रद माने जाते है. इन नामों का स्मरण करने से बुध प्रसन्न होता है. हिन्दू धर्म नाम जप से ही सब देवता प्रसन्न हो जाते है. ये 25 नाम स्तोत्र रूप में दिए गये है. इनसे जातक लाभ उठा सकते हैं.

अस्य श्रीबुधपञ्चविंशतिनामस्तोत्रस्य प्रजापतिऋषि,
त्रिष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ॥

बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः ।
प्रियङ्गुकलिकाश्यामः कञ्जनेत्रो मनोहरः ॥ १॥

ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः ।
विरुद्धकार्यहन्ता च सौम्यो बुद्धिविवर्धनः ॥ २॥

चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानिनायकः ।
ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः ॥ ३॥

लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः ।
पञ्चविंशतिनामानि बुधस्यैतानि यः पठेत् ॥ ४॥

स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति ।
तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥ ५॥

॥ इति श्रीपद्मपुराणे बुधपञ्चविंशतिनामस्तोत्रं सम्पूर्णम् ॥