Spread the love

आदित्य हृदय स्तोत्र वाल्मीकि रामायण में दिया गया है जो अगस्त्य ऋषि ने राम को उपदेश दिया था. यही प्रचलन में है, और काफी शक्तिशाली स्तोत्र है. यहाँ दिया जा रहा आदित्य हृदय स्वयं भगवान कृष्ण ने अर्जुन को उपदेश दिया था इसलिए इसमें उससे ज्यादा सम्पूर्णता है. यहाँ भगवान सूर्य के द्वादश नाम मन्त्र सहित, भगवान आदित्य का स्तव, न्यास मन्त्र और आदित्य हृदय स्तोत्र दिया गया है. यह सब मिलकर आदित्य हृदय मन्त्र स्तोत्र हो जाता है. यहाँ अर्घ्य के लिए श्लोक और मन्त्र भी दिया गया है. नीच और दु:स्थानगत सूर्य के दुष्प्रभाव या सूर्य महादशा में अशुभ प्रभाव या सप्तम भाव में सूर्य के दुष्प्रभाव में इसका प्रातः काल में अर्घ्य और पूजन सहित पाठ बहुत कारगर है.

पद्म पुराणान्तर्गत आदित्य ह्रदय स्तोत्र

आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ।
तृतीयं भास्करः प्रोक्तं चतुर्थं च प्रभाकरः ॥
पञ्चमं च सहस्रांशु षष्ठं चैव त्रिलोचनः ।
सप्तमं हरिदश्वं च अष्टमं तु अहर्पतिः ॥
नवमं दिनकरः प्रोक्तं दशमं द्वादशात्मकः ।
एकादशं त्रिमूर्तिश्च द्वादशं सूर्य एव तु ॥

॥ फलश्रुति ॥
द्वादशादित्यनामानि प्रातःकाले पठेन्नरः ।
दुःस्वप्नो नश्यते तस्य सर्वदुःखं च नश्यति ॥
दद्रुकुष्टहरं चैव दारिद्र्यं हरते ध्रुवम् ।
सर्वतीर्थकरं चैव सर्वकामफलप्रदम् ॥
यः पठेत् प्रातरुत्थाय भक्त्या स्तोत्रमिदं नरः ।
सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥

॥ सूर्यस्य द्वादशनाम नमस्कारम् ॥
१. ॐ आदित्याय नमः । २. ॐ दिवाकराय नमः । ३. ॐ भास्कराय नमः । ४. ॐ प्रभाकराय नमः । ५. ॐ सहस्रांशवे नमः । ६. ॐ त्रिलोचनाय नमः । ७. ॐ हरिदश्वाय नमः । ८. ॐ विभावसवे नमः । ९. ॐ दिनकराय नमः । १०. ॐ द्वादशात्मकाय नमः । ११. ॐ त्रिमूर्तये नमः । १२. ॐ सूर्याय नमः ॥

॥ विनियोगः ॥
ॐ अस्य श्रीआदित्यहृदयस्तोत्रमन्त्रस्य श्रीकृष्ण ऋषिः, अनुष्टुप्छन्दः, श्रीसूर्यनारायणो देवता, हरितहयरथं दिवाकरं घृणिरिति बीजं, नमो भगवते जितवैश्वानर जातवेदसे नमः इति शक्तिः, अंशुमानिति कीलकं, अग्नि कर्म इति मन्त्रः, मम सर्वरोगनिवारणाय श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः ।

॥ स्तवः ॥
अर्कं तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् ।
विन्यसेत् करयोः सूर्यं कर्णयोश्च दिवाकरम् ॥
नासिकायां न्यसेत् भानुं मुखे वै भास्करं न्यसेत् ।
पर्जन्यमोष्ठयोश्चैव तीक्ष्णं जिह्वान्तरे न्यसेत् ॥
सुवर्णरेतसं कण्ठे स्कन्धयोस्तिग्मतेजसम् ।
बाह्वोस्तु पूषणं चैव मित्रं वै पृष्ठतो न्यसेत् ॥
वरुणं दक्षिणे हस्ते त्वष्टारं वामतः करे ।
हस्तावुष्णकरः पातु हृदयं पातु भानुमान् ॥
स्तनभारं महातेजा आदित्यमुदरे न्यसेत् ।
पृष्ठे त्वर्घमणं विद्यादादित्यं नाभिमण्डले ॥
कट्यां तु विन्यसेद्धंसं रुद्रमूर्वो विन्यसेत् ।
जान्होस्तु गोपतिं न्यस्य सवितारं तु जङ्घयोः ॥
पादयोस्तु विवस्वन्तं गुल्फयोश्च प्रभाकरम् ।
सर्वाङ्गेषु सहस्रांशु दिग्विदिक्षु भगं न्यसेत् ॥
बाह्यतस्तु तमोघ्नंसं भगमभ्यन्तरे न्यसेत् ।
एष आदित्यविन्यासो देवानामपि दुर्लभः ॥

॥ न्यासम् ॥
मूर्ध्नि अर्काय नमः । ललाटे रवये नमः । करयोः सूर्याय नमः । कर्णयोः दिवाकराय नमः । नासिकायां भानवे नमः । मुखे भास्कराय नमः । ओष्ठयोः पर्जन्याय नमः । जिह्वायां तीक्ष्णाय नमः । कण्ठे सुवर्णरेतसे नमः । स्कन्धयोः तिग्मतेजसे नमः । बाह्वोः पूषणाय नमः । पृष्ठे मित्राय नमः । दक्षहस्ते वरुणाय नमः । वामहस्ते त्वष्टारं नमः । हस्तौ उष्णकराय नमः । हृदये भानुमते नमः । स्तनयोः महातेजसे नमः । उदरे आदित्याय नमः । पृष्ठे अर्घमणाय नमः । नाभौ विद्यादादित्याय नमः । कट्यां हंसाय नमः । ऊर्वोः रुद्राय नमः । जान्होः गोपतये नमः । जङ्घयोः सवित्रे नमः । पादयोः विवस्वते नमः । गुल्फयोः प्रभाकराय नमः । सर्वाङ्गे सहस्रांशवे नमः । दिग्विदिक्षु भगाय नमः । बाह्ये तमोघ्नंसाय नमः । अभ्यन्तरे भगाय नमः ।

॥ ध्यानम् ॥
भास्वद्रत्नाढ्यमौलिः स्फुरदधररुचारञ्जितश्चारुकेशो
भास्वान् यो दिव्यतेजाः करकमलयुतः स्वर्णवर्णः प्रभाभिः ।
विश्वाकाशावकाशो ग्रहग्रहण सहितो भाति यश्चोदयाद्रौ
सर्वानन्दप्रदाता हरिहरनमितः पातु मां विश्वचक्षुः ॥ ॥

॥ अर्घ्यम् ॥
एहि सूर्य सहस्रांशो तेजोराशिः जगत्पते ।
अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर ॥ ॥
मन्त्रम्- ॐ घृणिः सूर्य आदित्य ।

॥ सूर्यस्तुतिः ॥
अग्निमीळे नमस्तुभ्यमीषत्तूर्यस्वरूपिणे ।
अग्न्यायाहि वीतये त्वं नमस्ते ज्योतिषां पते ॥
शन्नो देवो नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते ।
डाकिनीं श्यामलप्रभाम् ॥
विश्वदीप नमस्तुभ्यं नमस्ते जगदात्मने ।
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ॥
सप्ताश्वरथसंयुक्तो द्विभुजो भास्करो रविः ।
आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने ॥
जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ।
नमो धर्मविपाकाय नमः सुकृतसाक्षिणे ॥
नमः प्रत्यक्षदेवाय भास्कराय नमो नमः ।
उदयगिरिमुपेतं भास्करं पद्महस्तम् ।
सकलभुवनरत्नं रत्नरत्नाभिधेयम् ॥
तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनाम् ।
सुरवरमभिवन्दे सुन्दरं विश्वरूपम् ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात् कारुण्यभावेन रक्षस्व परमेश्वर ॥

॥ इति श्रीपद्मपुराणे श्रीकृष्णार्जुनेसंवादे आदित्यहृदयस्तोत्रम् ॥