यदि स्वामी क्रोधी, दुष्ट, दुराचारी व लोभी हो, दुर्विचार वाला हो उसको दण्ड देकर अपने अनुकूल करने के लिये भगवती वैष्णवी के इस स्तोत्र का जप करना चाहिये. सहस्रावृत्ति हेतु श्लोक १ से ३ की
आवृत्तियां करे. श्लोक ४ से ६ श्लोक महात्म है जो अन्तिम बार पढे.
विनियोगः-
ॐ अस्य श्री स्वामिवश्यकरी शत्रुविध्वंसिनी स्तोत्रमन्त्रस्य पिप्पलायन ऋषि अनुष्टप् छन्दः श्रीरामचन्द्रो देवता मम स्वामिप्रीत्यर्थ मत्सकाशात् शत्रोः पिशाचवत् पलायनार्थे जपे विनियोगः।
षडङ्गन्यास -
ॐ रां अनुष्ठाभ्यां नमः ।
ॐ रीं तर्जनीभ्यां नमः ।
ॐ रूं मध्यमाभ्यां नमः ।
ॐ रैं अनामिकाभ्यां नमः ।
ॐ रौं कनिष्ठिकाभ्या नमः ।
ॐ रः अस्त्राय फट् ॥
।। ध्यानम् ।।
ॐ कालाम्भोघर कान्तिकायमनसं वीरासनाध्यासितं
मुद्रां ज्ञानमयी दधानमपरां हस्ताम्बुजे जानुनी ।
सीतां पार्श्वगतां शिरोरूहकरां विद्युन्निमं राघवं
पश्यन्तीं मुकुटं गदादिविविधं कल्पोज्ज्वलाङ्गीं भजे ॥
।। विभीषण उवाच।।
ॐ स्वामिवश्यकरी देवी प्रीतिवृद्धिकरी मम ।
शत्रुविध्वंसिनी रौद्री त्रिशिरा सा विलोचनी ॥ १॥
अग्निर्ज्वाला रौद्रमुखी घोरदंष्ट्रा त्रिशूलिनी ।
दिगम्बरी मुक्तकेशी रणपाणिर्महोदरी ॥ २॥
एकराड् वैष्णवी घोरे शत्रुमुद्दिश्य ते विषम् ।
प्रभुमुद्दिश्य पीयूषं प्रसादादस्तु ते सदा ॥ ३॥
मन्त्रमेतज्जपेन्नित्यं विजयं शत्रुनाशनम् ।
स्वामिप्रीत्यभिवृद्धिहिं जपात्तस्य न संशयः ॥ ४॥
सहस्रं त्रितयं कृत्वा कार्यसिद्धिर्भविष्यति ।
जपाद्दशांशतो होमः सर्षपैस्तन्दुलैः घृतैः ॥ ५॥
पञ्चखाद्ययुतैर्हुत्वा स्वामिवश्यकरी तथा ।
ब्राह्मणान् भोजयेत् पश्चादात्माभीष्ट फलप्रदः ॥ ६॥
॥ इति स्वामिवश्यकरी शत्रुविध्वंसिनी अथवा भगवती वैष्णवी स्तोत्रम् ॥