Spread the love

यह एक बेहद शक्तिशाली स्तोत्र है. जब पांडव बहुत कष्ट में थे और अज्ञातवास में राजा विराट के यहाँ नौकरी कर रहे थे तब ऋषियों ने उन्हें दुर्गा की उपासना करने और इस स्तोत्र पाठ करने का उपाय बताया था. इस पाठ से वे अज्ञातवास के बुरे दौर से मुक्त हुए और निर्भय हो गये.

इस स्तोत्र का पाठ मिट्टी की बनी दुर्गा मूर्ति पर पूजन करके करना चाहिए. सूर्य को अर्घ्य देने के उपरांत दुर्गा पूजन करें. सिर्फ पंचोपचार पूजन ही पर्याप्त है, श्वेत सुगन्धित पुष्प का पूजन में प्रयोग करें या कमल का उपयोग करें और 27 दिन इसका 21 पाठ करें. हर पाठ पर देवी को अर्घ्य और एक दीपक निवेदित करें देवी को भोग में दूध की बनी मीठी वस्तुओं का लगायें.

॥ अथ श्रीदुर्गा नक्षत्रमालिका स्तुतिः ॥

॥ ॐ श्री गणेशाय नमः ॥

विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ।
अस्तुवन् मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ १॥

यशोदागर्भसम्भूतां नारायणवरप्रियाम् ।
नन्दगोपकुलेजातां मङ्गळ्यां कुलवर्धनीम् ॥ २॥

कंसविद्रावणकरीमसुराणां क्षयं करीम् ।
शिलातटविनिक्षिप्तामाकाशं प्रतिगामिनीम् ॥ ३॥

वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् ।
दिव्याम्बरधरां देवीं खद्गखेटकधारिणीम् ॥ ४॥

भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम् ।
तान्वै तारयसे पापात् पङ्केगामिव दुर्बलाम् ॥ ५॥

स्तोतुं प्रचक्रमे भूयः विविधैः स्तोत्रसम्भवैः ।
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ ६॥

नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ।
बालार्क सदृशाकारे पूर्णचन्द्रनिभानने ॥ ७॥

चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे ।
मयूरपिञ्छवलये केयूराङ्गदधारिणि ॥ ८॥

भासि देवि यथा पद्मा नारायणपरिग्रहः ।
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ ९॥

कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना ।
बिभ्रती विपुलौ बाहु शक्रध्वजसमुछ्रयौ ॥ १०॥

पात्री च पङ्कजी कण्ठी स्त्री विशुद्धा च या भुवि ।
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ ११॥

कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।
चन्द्रविस्पार्धिना देवि मुकेन त्वं विराजसे ॥ १२॥

मुकुटेन विचित्रेण केशबन्धेन शोभिना ।
भुजङ्गाऽभोगवासेन श्रोणिसूत्रेण राजता ॥ १३॥

विभ्राजसे च बद्धेन भोगेनेवेह मन्थरः ।
ध्वजेन शिखिपिञ्छानामुछ्रितेन विराजसे ॥ १४॥

कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया ।
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ १५॥

त्रैलोक्य रक्षणार्थाय महिषासुर घातिनि ।
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ १६॥

जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा ।
ममापि विजयं देहि वरदा त्वं च साम्प्रतम् ॥ १७॥

विन्ध्ये चैव नगश्रेष्ठे तवस्थानं हि शाश्वतम् ।
कालि कालि महाकालि शीधुमांस पशुप्रिये ॥ १८॥

कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि ।
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥ १९॥

प्रणमन्ति च ये त्वां हि प्रयाणे तु नरा भुवि ।
न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा ॥ २०॥

दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः ।
कान्तारेष्व-वसन्नानां मग्नानां च महार्णवे ॥ २१॥

(दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ।)
जलप्रतरणे चैव कान्तारेषु अवटेषु च ।
ये स्मरन्ति महादेवीं न च सीदन्ति ते नराः ॥ २२॥

त्वं कीर्तिः श्रीः धृतिः सिद्धिः ह्रीः विद्या सन्ततिर्मतिः ।
सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया ॥ २३॥

नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् ।
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ २४॥

सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ।
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ २५॥

त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः ।
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ २६॥

एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ।
उपगम्य तु राजानमिदं वचनमब्रवीत् ॥ २७॥

श‍ृणु राजन् महाबाहो मदीयं वचनं प्रभो ।
भविष्यति अचिरादेव सङ्ग्रामे विजयस्तव ॥ २८॥

मम प्रसादात् निर्जित्य हत्वा कौरव वाहिनीम् ।
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ २९॥

भ्रातृभिः सहितो राजन् प्रीतिं यास्यसि पुष्कलाम् ।
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥ ३०॥

ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः ।
तेषां तुष्टा प्रदास्यामि राज्यमायुः वपुः सुतम् ॥ ३१॥

प्रवासे नगरे वापि सङ्ग्रामे शतृसङ्कटे ।
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ ३२॥

ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता ।
न तेषां दुर्लभं किञ्चित् अस्मिन् लोके भविष्यति ॥ ३३॥

इदं स्तोत्रवरं भक्त्या श‍ृणुयात् वा फठेत वा ।
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ॥ ३४॥

मत्प्रसादाच्च वस्सर्वान् विराटनगरे स्थितान् ।
न प्रज्ञास्यन्ति कुरवः नरा वा तन्निवासिनः ॥ ३५॥

इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् ।
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥ ३६॥

इति श्रीदुर्गा नक्षत्रमालिकास्तुतिः समाप्ता ।

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि
अष्टमोऽध्यायान्तर्गतं युधिष्ठिरकृतं श्रीदुर्गास्तवं सम्पूर्णम् ।

॥ ॐ तत्सत्॥