Spread the love

महाभारत के भीष्म पर्व में यह स्तोत्र प्राप्त होता है. धृतराष्ट्र को संजय ने बताया कि युद्ध क्षेत्र में सेनाओं के उपस्थित होने पर यदुवंश शिरोमणि कृष्ण ने अर्जुन को इस दुर्गा स्तोत्र द्वारा आह्वान करने के लिए कहा. अर्जुन ने स्तोत्र का पाठ कर विन्ध्यवासिनी रूप देवी दुर्गा का आह्वान किया और उनसे विजय का आशीर्वाद प्राप्त किया था. वही स्तोत्र विनोयोग, न्यासादि सहित यहाँ दिया गया है-

विनियोग –
ॐ अस्य श्रीभगवती दुर्गा स्तोत्र मन्त्रस्य श्रीकृष्णार्जुनस्वरूपी
नरनारायणो ऋषिः, अनुष्टुप् छन्द, श्रीदुर्गा देवता,
ह्रीं बीजं, ऐं शक्ति, श्रीं कीलकं,
ममाभीष्टसिद्धयर्थे जपे विनियोगः ॥

ऋष्यादिन्यास –
श्रीकृष्णार्जुनस्वरूपी नरनारायणो ऋषिभ्यो नमः शिरसि,
अनुष्टुप् छन्दसे नमः मुखे, श्रीदुर्गादेवतायै नमः हृदि,
ह्रीं बीजाय नमः गुह्ये, ऐं शक्त्यै नमः पादयो,
श्रीं कीलकाय नमः नाभौ,
ममाभीष्टसिद्धयर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥

करन्यास –
ॐ ह्रां अङ्गुष्ठाभ्यां नमः,
ॐ ह्रीं तर्जनीभ्यां स्वाहा, ॐ ह्रूं मध्यमाभ्यां वषट्,
ॐ ह्रैं अनामिकाभ्यां हुं, ॐ ह्रौं कनिष्ठाभ्यां वौष्ट्,
ॐ ह्रः करतल करपृष्ठाभ्यां फट् ॥

अङ्गन्यास –
ॐ ह्रां हृदयाय नमः, ॐ ह्रीं शिरसें स्वाहा,
ॐ ह्रूं शिखायै वषट्, ॐ ह्रैं कवचायं हुं,
ॐ ह्रौं नैत्रत्रयाय वौष्ट्, ॐ ह्रः अस्त्राय फट् ॥

ध्यानम् –
सिंहस्था शशिशेखरा मरकतप्रख्या चतुर्भिर्भुजैः
शङ्खचक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः शोभिता ।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीक्वणन् नूपुरा
दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला ॥

मानस पूजन –
ॐ ह्रीं दुं दुर्गायै नमः लं पृथिव्यात्मकं गन्धं समर्पयामि ।
ॐ ह्रीं दुं दुर्गायै नमः हं आकाशात्मकं पुष्पं समर्पयामि ।
ॐ ह्रीं दुं दुर्गायै नमः यं वाय्वात्मकं धूपं घ्रापयामि ।
ॐ ह्रीं दुं दुर्गायै नमः रं वहृयात्मकं दीपं दर्शयामि ।
ॐ ह्रीं दुं दुर्गायै नमः वं अमृतात्मकं नैवेद्यं निवेदयामि ।
ॐ ह्रीं दुं दुर्गायै नमः सं सर्वात्मकं ताम्बूलं समर्पयामि ।

सञ्जय उवाच –
धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम् ।
अर्जुनस्य हितार्थाय कृष्णो वचनमब्रवीत् ॥ १॥

श्रीभगवानुवाच –
शुचिर्भूत्वा महाबाहो सङ्ग्रामाभिमुखे स्थितः ।
पराजयाय शत्रूणां दुर्गास्तोत्रमुदीरय ॥ २॥

सञ्जय उवाच –
एवमुक्तोऽर्जुनः सङ्ख्ये वासुदेवेन धीमता ।
अवतीर्यं रथात् पार्थः स्तोत्रमाह कृताञ्जलिः ॥ ३॥)

अथ दुर्गादेवीस्तवम् ।

श्रीअर्जुन उवाच –
नमस्ते सिद्धसेनानि आर्ये मन्दरवासिनि ।
कुमारि कालि कापालि कपिले कृष्णपिङ्गले ॥ १॥

भद्रकालि नमस्तुभ्यम् महाकालि नमोऽस्तुते ।
चण्डिचण्डे नमस्तुभ्यम् तारिणि वरवर्णिनि ॥ २॥

कात्यायनि महाभागे करालि विजये जये ।
शिखिपिच्छध्वजधरे नानाभरणभूषिते ॥ ३॥

अट्टशूलप्रहरणे खड्गखेटधारिणि ।
गोपेन्द्रस्यानुजे ज्येष्टे नन्दगोपकुलोद्भवे ॥ ४॥

महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि ।
अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये ॥ ५॥

उमे शाकम्बरी श्वेते कृष्णे कैटभनाशिनि ।
हिरण्याक्षि विरूपाक्षि सुधूम्राक्षि नमोऽस्तु ते ॥ ६॥

वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसि ।
जम्बूकटकचैत्येषु नित्यम् सन्निहितालये ॥ ७॥

त्वं ब्रह्मविद्याविद्यानां महानिद्रा च देहिनाम् ।
स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि ॥ ८॥

स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती ।
सावित्री वेदमाता च तथा वेदान्त उच्यते ॥ ९॥

स्तुतासि त्वं महादेवि विशुद्धेनान्तरात्मना ।
जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे ॥ १०॥

कान्तारभयदुर्गेषु भक्तानां चालयेषु च ।
नित्यं वससि पाताले युद्धे जयसि दानवान् ॥ ११॥

त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस्तथैव च ।
सन्ध्या प्रभावती चैव सावित्री जननी तथा ॥ १२॥

तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी ।
भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः ॥ १३॥

फलश्रुति –
यः इदं पठते स्तोत्रं कल्य उत्थाय मानवः ।
यक्षरक्षःपिशाचेभ्यो न भयं विद्यते सदा ॥ १॥

न चापि रिपवस्तेभ्यः सर्पाद्या ये च दंष्ट्रिणः ।
न भयं विद्यते तस्य सदा राजकुलादपि ॥ २॥

विवादे जयमाप्नोति बद्धो मुच्येत बन्धनात् ।
दुर्गं तरति चावश्यं तथा चोरैर्विमुच्यते ॥ ३॥

सङ्ग्रामे विजयेन्नित्यं लक्ष्मीं प्राप्नोति केवलाम् ।
आरोग्यबलसम्पन्नो जीवेद् वर्षशतं तथा ॥ ४॥