
चाक्षुषोपनिषद मन्त्र प्रयोग चाक्षुषी विद्या दो प्रकार की प्रसिद्ध है एक भगवान सांकृति कृत स्तोत्र है और दूसरी कृष्णयजुर्वेदीय विद्या है। यहाँ हम दूसरी विद्या का प्रयोग दे रहे हैं। इस मालामन्त्र के जप और पुरश्चरण से नेत्र सम्बन्धी रोगों का नाश होता है। नित्य जप करने वाले की नेत्र ज्योति कभी लुप्त नहीं होती और उसके कुल में कोई अँधा नहीं होता। इस मन्त्र का जप प्रातः काल सूर्य के समक्ष उनकी पंचोपचार पूजा करके, अर्घ्य प्रदान करके करें। मन्त्र में कहा गया है कि आठ ब्राह्मणों को यह मन्त्र प्रदान करने से यह मन्त्र सिद्ध होता है।
ॐ अथातश्चाक्षुषीं पठितसिद्धविद्यां चक्षूरोगहरां व्याख्यास्यामः । यच्चक्षूरोगाः सर्वतो नश्यन्ति । चक्षुषी दीप्तिर्भविष्यतीति ।
विनियोग : ॐ अस्याश्चाक्षुषीविद्याया अहिर्बुध्न्य ऋषिर्गायत्री छन्दः सूर्यो देवता चक्षुरोग निवृत्तये विनियोगः |
मन्त्र: ॐ चक्षुश्चक्षुश्चक्षुश्तेजस्थिरोभव । मां पाहि पाहि । त्वरितम् चक्षूरोगान्त्वरितम् चक्षूरोगान् शमय चक्षूरोगान् शमय । मम जातरूपं तेजो दर्शय दर्शय । यथाऽहमन्धो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुःप्रतिरोधकदुष्कृतानि सर्वाणि निर्मूलय निर्मूलय । ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः करुणाकरायामृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्यायाक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवाञ्छुचिरूपः । हंसो भगवान् शुचिप्रतिरूपःभगवान् शुचिप्रतिरूपः । य इमां चाक्षुष्मतीविद्यां ब्राह्मणो नित्यमधीयते न तस्याक्षिरोगो भवति । न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा ब्राह्मणान् विद्यासिद्धिर्भवति । ॐ वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः। अप ध्वान्तमूर्णुहि पूर्धि- चक्षुम् उग्ध्यस्मान्निधयेव बद्धान्।। ॐ पुण्डरीकाक्षाय नमः। ॐ पुष्करेक्षणाय नमः। ॐ कमलेक्षणाय नमः। ॐ विश्वरूपाय नमः। ॐ श्रीमहाविष्णवे नमः। ॐ सूर्यनारायणाय नमः।। ॐ शान्तिः शान्तिः शान्तिः।। य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यम् अधीयते न तस्य अक्षिरोगो भवति। न तस्य कुले अंधो भवति। न तस्य कुले अंधो भवति। अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिः भवति। विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतिरूपमं तपतं सहस्त्र रश्मिः। शतधावर्तमानः पुरः प्रजानाम् उदयत्येष सूर्यः। ॐ नमो भगवते आदित्याय।।

