विनियोग :
ॐ आकृष्णेति मन्त्रस्य हिरण्यस्तूपाङ्गिरस ऋषिस्त्रिष्टुप्छन्दः सूर्यो देवता सूर्यप्रीत्यर्थे जपे विनियोगः
अथ देहाङ्गन्यासः -
आकृष्णेन शिरसि । रजसा ललाटे । वर्तमानो मुखे । निवेशयन् हृदये । अमृतं नाभौ । मर्त्यं च कट्याम् । हिरण्ययेन सविता ऊर्व्वोः । रथेना जान्वोः । देवो याति जङ्घयोः । भुवनानि पश्यन् पादयोः ॥
अथ करन्यासः -
आकृष्णेन रजसा अङ्गुष्ठाभ्यां नमः । वर्तमानो निवेशयन् तर्जनीभ्यां नमः । अमृतं मर्त्यं च मध्यमाभ्यां नमः । हिरण्ययेन अनामिकाभ्यां नमः । सविता रथेना कनिष्ठिकाभ्यां नमः । देवो याति भुवनानि पश्यन् करतलकरपृष्ठाभ्यां नमः ॥
एवं हृदयादिन्यासः -
आकृष्णेन रजसा हृदयाय नमः । वर्तमानो निवेशयन् शिरसे स्वाहा । अमृतं मर्त्यं च शिखायै वषट् । हिरण्येन कवचाय हुँ । सविता रथेना नेत्रत्रयाय वौषट् । देवो याति भुवनानि पश्यन् अस्त्राय फट् ।
अथ ध्यानं -
पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहनः ।
दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः ॥
सूर्यगायत्री -
ॐ आदित्याय विद्महे दिवाकराय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ १॥
सबीज वैदिक मन्त्र -
ॐ ह्राँ ह्रीं ह्रौं सः ॐ भूर्भुवः स्वः -ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतम्मर्त्यञ्च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॐ स्वः भुवः भूः ॐ सः ह्रौं ह्रीं ह्राँ ॐ सूर्याय नमः ॥