भास्वान्मे भासयेत् तत्त्वं चन्द्रश्चाह्लादकृद्भवेत् । मङ्गलो मङ्गलं दद्यात् बुधश्च बुधतां दिशेत् ॥ १॥ गुरुर्मे गुरुतां दद्यात् कविश्च कवितां दिशेत् । शनिश्च शं प्रापयतु केतुः केतुं जयेऽर्पयेत् ॥ २॥ राहुर्मे राहयेद्रोगं ग्रहाः सन्तु करग्रहाः । नवं नवं ममैश्वर्यं दिशन्त्वेते नवग्रहाः ॥ ३॥ शने दिनमणेः सूनो ह्यनेकगुणसन्मणे । अरिष्टं हर मेऽभीष्टं कुरु मा कुरु सङ्कटम् ॥ ४॥ हरेरनुग्रहार्थाय शत्रुणां निग्रहाय च । वादिराजयतिप्रोक्तं ग्रहस्तोत्रं सदा पठेत् ॥ ५॥ ॥ इति श्रीवादिराजयतिविरचितं नवग्रहस्तोत्रम् ॥

