(परिशिष्ट_१. नक्षत्रकल्पः)
(०,०.०) श्रीगणेशाय नमः ॥ ओं नमोऽथर्वात्मने वामदेवाय शिवाय ॥ श्रीसरस्वत्यै नमः ॥
(१,१.१) अथ नक्षत्रकल्पं व्याख्यास्यामः ॥
(१,१.२) कृत्तिका रोहिणी मृगशिर आर्द्रा पुनर्वसू पुष्याश्लेषा मघा(ः) फाल्गुनी फल्गुन्यौ हस्त(श्) चित्रा स्वाति(र्) विशाखे अनुराधा ज्येष्ठा मूल(म्) पूर्वाषाढा उत्तराषाडाभिजिच्छ्रवणः श्रविष्ठा शतभिषः पूर्वप्रोष्ठपदोत्तरप्रोष्ठपदौ रेवत्यश्वयुजौ भरण्यः ॥
(१,२.१) षट्कृत्तिका एका रोहिणी तिस्रो मृगशिर एकार्द्रा द्वे पुनर्वसू एकः पुष्यः षडाश्लेषाः षण्मघाः चतस्रः फल्गुन्यः पञ्च हस्त एका चित्रा एका स्वातिर्द्वे विशाखे चतस्रोऽनुराधा एका ज्येष्ठा सप्त मूलमष्टावषाढा एकोऽभिजित्तिस्रः श्रवणः पञ्च श्रविष्ठा एका शतभिषा चतस्रः प्रोष्ठपदौ एका रेवती द्वे अश्वयुजौ तिस्रो भरण्यः ॥
(१,२.२) इति संख्यापरिमितं ब्रह्म ॥
(१,३.१) आग्निवेश्यः कृत्तिका रोहिण्यानुरोहिणी श्वेतायिनं मृगशिर आर्द्रा बार्हद्गवी वात्स्यायनौ पुनर्वसू भारद्वाजः पुष्यो जातूकर्ण्योऽश्लेषा वैयाघ्रपद्यो मघा(ः) पाराशर्यौ पूर्वे फाल्गुण्यावौपशिव्या उत्तरे माण्डव्यायनो हस्तश्चित्रा गौतमी कौण्डिन्यायनः स्वातिः कापिले विशाखे मैत्रेय्यनुराधा कौशिकी ज्येष्ठा कौत्सं मूलं हारितयज्ञी पूर्वाषाढा काश्यप्युत्तरा शौनकोऽभिजिदात्रेयः श्रवणो गार्ग्यः श्रविष्ठा दाक्षायणी शतभिषग्वात्स्यायन्यौ पूर्वे प्रोष्ठपदे आगस्त्यावुत्तरे शाङ्खायनी रेवती कात्यायन्(य्)आवश्वयुजौ मातृभ्यो भरण्यः वसिष्ठः कश्यप आदित्यश्चन्द्रमा ब्रह्माणो नक्षत्रेषु ॥
(१,४.१) कृत्तिका अग्निदेवत्या रोहिण्यां तु प्रजापतिः । सौम्यं मृगशिरं विद्यान्मरुतश्चात्र दैवतम् ॥
(१,४.२) रुद्रस्यार्द्रादितेः पुनर्वसू पुष्ये विद्याद्बृहस्पतिम् । अश्लेषा[[ः]] सर्पदैवत्या मघासु पितरः स्मृताः ॥
(१,४.३) भगस्[तु] पूर्वयोः फल्गुन्योरर्यमोत्तरयोरपि । हस्ते च सविता दैवं चित्रा तु त्वष्टृदैवता ॥
(१,४.४) स्वातौ तु दैवतं वायुरिन्द्राग्नी तु विशाखयोः । अनुराधासु मित्रो वै ज्येष्ठायामिन्द्रमहादेवौ ॥
(१,४.५) अहिर्बुध्न्यश्च मूलस्य निरृतिश्चात्र दैवतम् । आपः पूर्वास्वषाढासु विश्वे देवास्तथोत्तरे ॥
(१,४.६) अभिजिद्ब्रह्मदेवत्यः श्रवणे विष्णुरुच्यते । श्रविष्ठा वसुदेवत्या शतभिषग्वरुणेन्द्रयोः ॥
(१,४.७) अज एकपाद्दिशश्च आदित्यश्च तथोत्तरे । रेवती पूषदैवत्या अश्विन्यामश्विनौ स्मृतौ ॥
(१,४.८) भरण्यो यमदेवत्या देवताः संप्रकीर्तिताः ॥
(१,५.१) कृत्तिका मघा मूलं [[च तथा]] पूर्वाणि द्वन्द्विनाम् । एतानि पुरस्ताद्भागान्यहःपूर्वाणि जानीयात् ॥
(१,५.२) आर्द्रां शतभिषजं स्वातिमाश्लेषा भरणीरपि । नक्तंभागानि ब्रुवते ज्येष्ठया सह ब्रह्माणम् ॥
(१,५.३) पुनर्वसू विशाखे च उत्तराणि च द्वन्द्विनाम् । रात्रीमुभयतः पक्षौ भजन्ते या च रोहिणी ॥
(१,५.४) मृगशिरः पुष्यो हस्तश्चित्रा तु सहानुराधैः । श्रवणश्च श्रविष्ठाश्च रेवत्यश्वयुजौ नव ॥
(१,५.५) एतान्युपरिष्टाद्भागानि रात्रीपूर्वाणि जानीयात् । मुहूर्तोऽभिजिदुच्यते ॥
(१,५.६) पुरस्ताद्भागान्यनागतेनोपरिष्टाद्भागान्यतिक्रान्तेन उभयतोभागानि वर्तमाने[[न]] नक्तंभागानि समं चन्द्रेण वा ॥
(१,५.७) [[षड]]नागतयोगीनि स्थितयोगीनि द्वादश । नवातिक्रान्तयोगीनि तथा योगः प्रदृश्यते ॥
(१,६.१) बहूनि जातानि ग्रहो हिनस्ति कृत्तिकासु तिष्ठन्नुत दीर्घमायुः । अजावयो मूषिकाश्च व्यथन्ते विशो ब्रह्मणः सह म्लेच्छवांश्च ॥
(१,६.२) कलिङ्गानां व्यथते ननु राजा हिरण्यकारांश्च निहन्ति कृत्स्नम् । अयस्कारा लोहकारा आहिताग्निश्च कृत्स्नं नियन्ति सहाग्नितप्तैः ॥
(१,६.३) अयो लोहं रजतं जातरूपं हिरण्यमिश्रं [यच्] च पतन्ति सारम् । काशाः कुशा यच्च सुवर्णवर्णं यच्चाग्निवर्णं फलमूलपुष्पम् ॥
(१,६.४) [ये तत्र जाताः] सरांसि शुष्यन्त्यपयन्ति नद्यः प्रजा व्यथन्ते पशवो मृगाश्च ॥ प्रजापतेर्हृदये पीड्यमाने सर्वं जगद्व्यथते सप्रदेशम् ॥
(१,६.५) महाभौमो राजा मरिष्यतीति विद्यादेकारिणां छवकामिन्वकासु । नक्षत्रभागे नियन्ति योजधानाः तथा हि नूनं त्रिणवेन सृष्टम् ॥
(१,६.६) तथा स निन्ये निधानदर्शनाय तत्र तेषां सहाक्षेमं तस्य विद्यात् । परित्य ये पूर्वपदान् बलेन उत्तिष्ठन्ति वीर्यवन्तो मृगानाम् ॥
(१,६.७) भगेन देव्युपयन्ति दिव्यमार्द्राभागे सहिनो भवन्ति । तत्र दैवान्मानुष्यांश्च पुनर्वस्वोर्नक्षत्र भागे निनियोज धानाः ॥
(१,६.८) तथा हि नूनं पुष्यो भाग एकधा ब्राह्मणानां तथा विदुर्नक्षत्रवेदितारः तथा हि नूनम् ॥
(१,६.९) शतद्रयः कैशिका दक्षिणार्धा आन्ध्राश्च योगहासया प्रवृद्धाः ॥ अश्लेषाभागे सहिनो भवन्ति तत्र ॥
(१,६.१०) वेणून् पितॄंस्त्रिरुजाहुर्देवताम् । मघाभागे अष्टमे देवसृष्टम् । संयुज्यन्ते देवप्रसादनेन तत्र ॥
(१,७.१) राज्ञां राकायामथ मद्रकैकया मनोमापायनसहपरिसुन्नियोजसहान्तौ । तुन्यमथ सप्तमात्रं पूर्वभागे नवके फल्गुनीषु ॥
(१,७.२) मत्स्या मागधाश्चेदयश्च शाल्वा मत्स्या उभे फल्गुनीषु । संयुज्यन्ते देवप्रसादनेन तत्र ॥
(१,७.३) पूर्वाचार्या इच्छमानाश्च सर्वे यकृत्क्लोम सह भागेन हस्ते । संयुज्यन्ते देवप्रसादनेन तत्र ॥
(१,७.४) ये पूर्वार्धे निजीहते चरन्तः शान्ता मृगा [जन्तु]पशवो अपगामिनस्ते । पशवो भवताश्च सर्वे चित्राया भागे सहिनो भवन्ति ॥ तत्रा
(१,७.५) च्युतकेशं वाहनं जयार्थं कुमार्यो अनड्वान् सहते अत्र ये । विज्ञायते देवसृष्टं पुराणं स्वातिं भजन्ते तृणवश्च सर्वे ॥
(१,७.६) वृक्षा वृक्षमूलमिक्ष्वाकवश्च विशाखायां योजिताः सांपदेन । तस्मिन् गृहीते भयमेव तेषां दैवोपसृष्टे तु बलेन कार्यम् ॥ ये तत्र जाताः ॥
(१,७.७) ये पश्चार्धे निजीहते चरन्त आसवो मृगा उत्तरार्धाश्चान्ध्राः । अनूराधासु मगधवङ्गमत्स्याः सर्वे समग्राः सहिनो भवन्ति तत्र ॥
(१,७.८) पञ्चैकधा जनपदा भवन्ति सयुजःकासौबलदादौष्यधाः । बाह्लीका ज्येष्ठा उपयन्ति भक्त्या तत्र ॥
(१,७.९) इक्ष्वाकूणां निर्मथ्या मूलमाहुः । तथा विदुर्नक्षत्रवेदितारस्तथा हि नूनम्
(१,७.१०) काम्बोजाः कालमृषाश्च क्रन्दा उच्छुष्माणः श्वानश्चावधूममर्कटाश्च पूर्वाषाढा उपयन्ति भक्त्या तत्र ॥
(१,८.१) विश्वे देवाः सह पञ्चालज्येष्ठा आपश्च याः पान्तु भूतं भविष्यत् । उत्तराषाढा उपयन्ति भक्त्या तत्र ॥
(१,८.२) नार्कविन्दा नार्व्विदाला नसृङ्गावौ नैषधा जन्तवो मतङ्गाः । अभिजितं हार्थविज्ञाय भेजिरे तत्र ॥
(१,८.३) पाञ्चालाः श्रवणमुपैति भक्त्या सुन्वन्तश्चोभे विद्वान् भूता निनियोज देवः ॥ पूर्वकर्ता भूतभविष्यकालस्तथा नि नूनम्
(१,८.४) कुरून् श्रविष्ठास्तथा शिवास्तथाहुर्नक्षत्रभागे निनियोज धानाः ॥ तथा हि नूनम्
(१,८.५) अङ्गादयो जनपदा गुहाशया अप्सु च ये क्षिपन्ति शतभिषजि भेषजस्य भेजिरे तत्र ॥
(१,८.६) खड्गा हस्तिनो गवया वराहा अहीनरा कुन्तयश्चापि सर्वे । पूर्वौ प्रोष्ठपदा उपयन्ति भक्त्या तत्र ॥
(१,८.७) उशीनरा उत्तरयोः प्रोष्ठपदयोर्नक्षत्रभागे निनियोज धानाः । तथा हि नूनम्
(१,८.८) आवृताः शूद्राः सह कारवश्च दक्षिणपूर्वे यूकभिः सह रेवतीं हार्थविज्ञाय भेजिरे तत्र ॥
(१,८.९) अच्युतकेशं वाहनं च पदार्थमुचावचजनपदा महान्तः । अश्वयुजौ हार्थविज्ञाय भेजिरे तत्र ॥
(१,८.१०) उभये कीकटाः कौशलाश्च रहश्च[वो] ये च प्रसुप्ताश्चरन्ति भरणीः सहार्थविज्ञाय भेजिरे तत्र तेषां सहाक्षयमस्य विद्यात् ॥
(१,९.१) करिष्यमाणः संग्रामं प्रतिराजेन क्षत्रियः । ब्राह्मणं पूर्वमन्विच्छेद्विद्वांसं शास्त्रवित्तमम् ॥
(१,९.२) उत्पातान् यस्तु यान् विद्याद्दिव्यान्तरिक्षपार्थिवान् । तं वै लिप्सितुमर्हति राजा राष्ट्रे जिजीविषुः ॥
(१,९.३) ग्रहाणां यः स्थितिं विद्यान्नक्षत्राणां च सांपदम् । अनभ्यक्तमुपासीत नक्षत्रसमतां च यत् ॥
(१,९.४) आयुधीयान् बिभ्रद्राजा कृत्तिकासु न रिष्यति । तद्धि तेजस्वि नक्षत्रं बहुलं दिवि रोचते ॥
(१,९.५) अथो हि कृत्तिका इति नक्षत्रं भानुमत्तमम् । आग्नेयमग्निनक्षत्रं राजा ह्यस्मिन् प्रवर्धते ॥
(१,९.६) रोहिण्या[ं] सार्धमासीत रज्जुपल्यानि कारयेत् । मृगशिरस्यश्वान् बिभृयात्सास्य सेना न रिष्यति ॥
(१,९.७) सौम्यं सोमस्य नक्षत्रं राजा ह्यस्मिन् प्रवर्धते । आर्द्रायां मृगयां यायादमित्रेभ्यश्च हावयेत् ॥
(१,९.८) पुनर्वस्वाभियुञ्जीत पुष्येनैतां प्रयोजयेत् । इषीकां छेदयन् राजा अश्लेषासु न रिष्यति ॥
(१,९.९) मघाभिः सार्धमासीत न यायादुच्छ्रयं चन । फल्गु द्वाराणि कारयेत्परिचारांश्च वाहयेत् ॥
(१,९.१०) तोरणानि च संहन्युः फलकानि च तक्षयेत् । ….. उत्तराभ्यां च हावयेत् ॥
(१,१०.१) हस्तेन चित्रामाकाङ्क्षेन्नक्षत्रस्य परिग्रहम् । अनेकदर्शी स्याच्चित्रायां पुरा स्वातेरभिप्लवात् ॥
(१,१०.२) स्वातौ शिशून्नियोजयेज्जवार्थान् रथवाहिनः । अथास्मिन् [कन्याम्] उपवासयेत्क्षिप्रं सा लभते पतिम् ॥
(१,१०.३) प्रदतीन् कारयन् राजा विशाखायां न रिष्यति । लेपयेत्प्रदती राजा अनूराधासु क्षत्रियः ॥
(१,१०.४) ज्येष्ठायां हस्तिनं पश्येदभिषेकांश्च कारयेत् । ….. राजपुत्रांश्च योधयेत् ॥
(१,१०.५) मूलेन परिखां खानयेत्पुरं चितेन योजयेत् । नैरृतं राजनक्षत्रं वध्याननेन घातयेत् ॥
(१,१०.६) त्रिरात्रं सार्धं दीक्षयित्वा आषाढासु व्रतं चरेत् । अभिजित्यभियुञ्जीत श्रवणेन चिकीर्षतु ॥
(१,१०.७) श्रविष्थाभिः सृजेद्रसान् ॥
(१,१०.८) शतभिषजि भिषक्कर्म भैषज्यं चात्र कारयेत् । प्राचीनप्रोष्ठपदयोर्यायाद्…
(१,१०.९) उत्तराभ्यामभियुञ्जीत गृहेषु रेवत्यां वसेत् । वि सेनां कारयेद्राजा अश्विन्यां भरणीषु च ॥
(१,११.१) चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि । तुर्मिशं सुमतिमिच्छमानो अहानि गीर्भिः सपर्यामि नाकम् ॥
(१,११.२) सुहवमग्ने कृत्तिका रोहिणी चस्तु भद्रं मृगशिरः शमार्द्रा । पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं मघा मे ॥
(१,११.३) पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु । राधे विशाखे सुहवा अनुराधा ज्येष्ठा सुनक्षत्रमरिष्टमूलम् ॥
(१,११.४) अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देह्युत्तरा आ वहन्तु । अभिजिन्मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥
(१,११.५) आ मे महच्छतभिसग्वरीय आमे द्वया प्रोष्ठपदा सुशर्म । आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥
(१,१२.१) कृत्तिका रोहिणी मृगशिर आर्द्रा पुनर्वसू पुष्याश्लेषा मघाः पूर्वे फल्गुन्यौ तन्नवममग्निर्दशममहोरात्रे एदादशद्वादशे ॥
(१,१२.२) एतान्येवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशूनन्नमन्नाद्यं समिन्धत इति वेद
(१,१२.३) अथ यं कामयत्येतान्येवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशूनन्नमन्नाद्यं समिन्धीरन्निति तस्मादेतस्मिन्नक्षत्र एवंविद्वान् कुर्यात्
(१,१२.४) प्राञ्चमिध्ममुपसमाधाय [[परिसमुह्य पर्युक्ष्य]] परिस्तीर्य बर्ही रसान् बर्हिष्याधायान्वालभ्याथ जुहुयाच्चित्राणि साकं दिवि रोचनानि स्वाहेत्यग्नौ हुत्वा रसेषु संपातानानीय संस्थाप्य होमांस्तत एनं प्राशयति रसान् ॥
(१,१२.५) एवं चेदस्मै करोत्येतान्येवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशूनन्नमन्नाद्यं समिन्धते ॥
(१,१३.१) उत्तरे फल्गुन्यौ हस्त[[श्]] चित्रा स्वाति[[र्]] विशाखे अनूराधा ज्येष्ठा मूलं पूर्वाषाढा तन्नवममादित्यो दशमं [नामरूप] पूर्वपक्षापरपक्षावेकादशद्वादशे
(१,१३.२) एतान्येवास्मै = १,१२.२.
(१,१३.३) अथ यम् = १,१२.३.
(१,१३.४) प्राञ्चमिध्मम् = १,१२.४.
(१,१३.५) एवम् = १,१२.५.
(१,१४.१) उत्तराषाढाभिजिच्छ्रवणः श्रविष्ठा शतभिषक्प्रोष्ठपदौ रेवत्यश्वयुजौ भरण्यस्तद्दशमम् … पौर्णमास्यमावास्ये द्वादशत्रयोदशे
(१,१४.२) एतान्येवास्मै = १,१२.२.
(१,१४.३) अथ यम् = १,१२.३.
(१,१४.४) प्राञ्चमिध्मम् = १,१२.४.
(१,१४.५) एवम् = १,१२.५.
(१,१५.१) ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमितिहासपुराणं वाकोवाक्य[[म्]] इदावत्सरः परिवत्सरः संवत्सरो दशमं शीतोष्णे एकादशद्वादशे
(१,१५.२) एतान्येवास्मै = १,१२.२.
(१,१५.३) अथ यम् = १,१२.३.
(१,१५.४) प्राञ्चमिध्मम् = १,१२.४.
(१,१५.५) एवम् = १,१२.५.
(१,१६.१) प्राणो अपानो व्यानः समान उदानश्चक्षुः श्रोत्रं वाङ्मनस्तन्नवमम् … दशमं नामरूपे एकादशद्वादशे
(१,१६.२) एतान्येवास्मै = १,१२.२.
(१,१६.३) अथ यम् = १,१२.३.
(१,१६.४) प्राञ्चमिध्मम् = १,१२.४.
(१,१६.५) एवम् = १,१२.५.
(१,१७.१) अजन्यजनिर्यशो अजनिर्वर्चो अजनिस्तेजो अजनिः सहो अजनिर्महो अजनिर्ब्रह्मा अजनिर्ब्राह्मणवर्चसमजनिः सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिरजनिर्भवतीति वेद
(१,१७.२) अथ यं कामयेत सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिरजनिः स्यादिति तस्मादेतस्मिन्नक्षत्र एवंविद्वान् कुर्यात् ॥
(१,१७.३) प्राञ्चमिध्मम् = १,१२.४.
(१,१७.४) एवं चेदस्मै करोति सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिरजनिर्भवति ॥
(१,१८.१) विष्ठितश्रवा वै नामैतन्नक्षत्रं यत्पूर्वाह्ने अधि[[तिष्ठति वि]]तिष्ठत्यस्य पुण्या कीर्तिरैनं पुण्या कीर्तिर्गच्छत्युपैनं पुण्या कीर्तिस्तिष्ठति नास्मात्पुण्या कीर्तिरपक्रामति कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर्धनेन भवतीति वेद
(१,१८.२) अथ यं कामयेत वितिष्ठेदस्य पुण्या कीर्तिर्[[ऐनं पुण्या कीर्तिर्]] गच्छेदुपैनं पुण्या कीर्तिस्तिष्ठेन्नास्मात्पुण्या कीर्तिरपक्रामेत्कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर्धनेन स्यादिति तस्मादेतस्मिन्नक्षत्र एवंविद्वान् कुर्यात् ॥
(१,१८.३) प्राञ्चमिध्ममुपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्याधायान्वालभ्याथ जुहुयाद्विषासहिं सहमानं स्वाहेत्यग्नौ हुत्वा रसेषु संपातानानीय संस्थाप्य होमांस्तत एनं प्राशयति रसान् ॥
(१,१८.४) एवं चेदस्मै करो[[ति वितिष्ठ]]त्यस्य पुण्या कीर्तिर्[[ऐनं पुण्या कीर्तिर्]] गच्छत्युपैनं पुण्या कीर्तिस्तिष्ठति नास्मात्पुण्या कीर्तिरपक्रामति कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर्भवति ॥
(१,१९.१) वर्चो वै नामैतन्नक्षत्रं यन्मध्याह्नैनं वर्चो गच्छत्युपैनं वर्चस्तिष्ठति नास्माद्वर्चो अपक्रामति वर्चस्वी प्रजया पशुभिः श्रिया गृहैर्धनेन भवतीति वेद
(१,१९.२) अथ यं कामयेतैनं वर्चो गच्छेदुपैनं वर्चो तिष्ठेन्नास्माद्वर्चो अपक्रामेद्वर्चस्वी प्रजया पशुभिः श्रिया गृहैर्धनेन स्यादिति तस्मादेतस्मिन्नक्षत्र एवंविद्वान् कुर्यात् ॥
(१,१९.३) प्राञ्चमिध्ममुपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्याधायान्वालभ्याथ जुहुयाद्वर्चो असि वर्चो मयि धेहि स्वाहेत्यग्नौ हुत्वा रसेषु संपातानानीय संस्थाप्य होमांस्तत एनं प्राशयति रसान् ॥
(१,१९.४) एवं चेदस्मै करोत्यैनं वर्चो गच्छत्युपैनं वर्चस्तिष्ठति नास्माद्वर्चो अपक्रामति वर्चस्वी प्रजया पशुभिः श्रिया गृहैर्धनेन भवति ॥
(१,२०.१) तेजो वै नामैतन्नक्षत्रं यदपराह्णैनं तेजो गच्छत्युपैनं तेजस्तिष्ठति नास्मात्तेजो अपक्रामति तेजस्वी प्रजया पशुभिः श्रिया गृहैर्धनेन भवतीति वेद
(१,२०.२) अथ यं कामयेतैनं तेजो गच्छेदुपैनं तेजस्तिष्ठेन्नास्मात्तेजो अपक्रामेत्तेजस्वी प्रजया पशुभिः श्रिया गृहैर्धनेन स्यादिति तस्मादेतस्मिन्नक्षत्र एवंविद्वान् कुर्यात् ॥
(१,२०.३) प्राञ्चमिध्ममुपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्याधायान्वालभ्याथ जुहुयाद्तेजो असि तेजो मयि धेहि स्वाहेत्यग्नौ हुत्वा रसेषु संपातानानीय संस्थाप्य होमांस्तत एनं प्राशयति रसान् ॥
(१,२०.४) एवं चेदस्मै करोत्यैनं तेजो गच्छत्युपैनं तेजस्तिष्ठति नास्मात्तेजो अपक्रामति तेजस्वी प्रजया पशुभिः श्रिया गृहैर्धनेन भवति ॥
(१,२१.१) विष्ठितश्रवा वै नामैतन्नक्षत्रं यत्पूर्वाह्ने ॥
(१,२१.२) वर्चो वै नामैतन्नक्षत्रं यन्मध्याह्ने ॥
(१,२१.३) तेजो वै नामैतन्नक्षत्रं यदपराह्णे ॥
(१,२१.४) अकाले त्वेवाप्रयुक्तानि भवन्ति ॥
(१,२२.१) विष्ठितश्रवा वै नामैतन्नक्षत्रं यत्पूर्वरात्रे ॥
(१,२२.२) वर्चो वै नामैतन्नक्षत्रं यद्मध्यरात्रे ॥
(१,२२.३) तेजो वै नामैतन्नक्षत्रं यदपररात्रे ॥
(१,२२.४) स्वेस्वे काले [[प्रयुक्तानि]] भवन्ति ॥
(१,२२.५) [[यो वै रात्रियान्वेवाप्रयुक्तानि भवन्ति]] ॥
(१,२३.१) यो वै अह्नः पुण्याहं वेद पुण्याही भवति पुण्याहमस्मै भवति पुण्याह एव कुरुते ॥
(१,२३.२) सूर्यो वाह्नः पुण्याहं तस्मादेतस्मिन्नक्षत्र एवंविद्वान् कुर्यात् ॥
(१,२३.३) प्राञ्चमिध्ममुपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्याधायान्वालभ्याथ जुहुयाद्विषासहिं सहमानं स्वाहेत्यग्नौ हुत्वा रसेषु संपातानानीय संस्थाप्य होमांस्तत एनं प्राशयति रसान् ॥
(१,२३.४) एवं चेदस्मै करोति पुण्याही भवति पुण्याहमस्मै भवति पुण्याह एव कुरुते ॥
(१,२४.१) यो वै रात्र्याः पुण्याहं वेद पुण्याही भवति पुण्याहमस्मै भवति पुण्याह एव कुरुते ॥
(१,२४.२) चन्द्रो वै रात्र्याः पुण्याहं तस्मादेतस्मिन्नक्षत्र एवंविद्वान् कुर्यात् ॥
(१,२४.३) प्राञ्चमिध्ममुपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्याधायान्वालभ्याथ जुहुयाद्यद्राजानं स्वाहेत्यग्नौ हुत्वा रसेषु संपातानानीय संस्थाप्य होमांस्तत एनं प्राशयति रसान् ॥
(१,२४.४) एवं चेदस्मै करोति पुण्याही भवति पुण्याहमस्मै भवति पुण्याह एव कुरुते ॥
(१,२५.१) यो वा अहोरत्रयोः पुण्याहं वेद पुण्याही भवति पुण्याहमस्मै भवति पुण्याह एव कुरुते ॥
(१,२५.२) ब्राह्मणो वा अहोरात्रयोः पुण्याहम्
(१,२५.३) तं पृच्छेत्केनाजितेति
(१,२५.४) स चेद्ब्रूयात्कर्तव्यमिति तथा कुर्यात्
(१,२५.५) पुण्याही भवति पुण्याहमस्मै भवति पुण्याह एव कुरुते ॥
(१,२६.१) यानि नक्षत्राणि दिव्यन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु । प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु ॥
(१,२६.२) अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे । योगं प्रपद्ये क्षेमं च क्षेमं प्रपद्ये योगं च नमोऽहोरात्राभ्यामस्तु ॥
(१,२६.३) स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु । सुहवमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन् ॥
(१,२६.४) अनुहवं परिहवं परिवादं परिक्षवम् । सर्वैर्मे रिक्तकुम्भान् परा तान्त्सवितः सुव ॥
(१,२६.५) अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् । शिवा ते पात नासिकां पुण्यगश्चाभिमेहताम् ॥
(१,२६.६) इमा या ब्रह्मणस्पते विषूचीर्वात ईरते । सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥
(१,२६.७) स्वस्ति नो अस्त्वभयं नो अस्तु नमोऽहोरात्राभ्यामस्तु ॥
(१,२७.१) दध्योदनं भुक्त्वा कृत्तिकाभिरभ्युदियात्सिद्धार्थो हैव पुनरागच्छति ॥
(१,२७.२) आर्षभेन मांसेन रोहिण्यां मृगमांसैर्मृगशिरसि रुधिरमार्द्रायां गृहपतिभक्तं पुनर्वस्वोः घृतपायसं पुष्ये सर्पिर्मांसैरश्लेषासु
(१,२७.३) एतानि खलु प्राग्द्वाराणि नक्षत्राणि भवन्ति ॥
(१,२७.४) स यत्रैव प्राचीं दिशमभ्युत्थितः शस्त्रहस्तेन वा कण्ठहस्तेन वा वध्यघातेन वा समेयान्निवर्तेतार्वाक्खल्वेतत्क्रोशादूर्ध्वं क्रोशादव्याघातुकमर्थस्य भवति ॥
(१,२८.१) तैलेन कृशरं भुक्त्वा मघाभिरभ्युदियात्सिद्धार्थो हैव पुनरागच्छत्य्
(१,२८.२) आविकैर्मांसैर्भुक्त्वा पूर्वयोः फल्गुन्योरभ्युदियाद्रसैरुत्तरयोः प्रैयङ्गवं हस्ते चित्रं भक्तं भुक्त्वा चित्रयाभ्युदियात्यानि ज्येष्ठानि तेषां भुक्त्वा स्वातावभ्युदियादपूपान् विशाखयोर्
(१,२८.३) एतानि खलु दक्षिणद्वाराणि नक्षत्राणि भवन्ति
(१,२८.४) स यत्रैव दक्षिणां दिशमभ्युत्थितः शयनहस्तेन वास्तरणहस्तेन वासन्दीहस्तेन वा नीवीहस्तेन वा जानुहस्तेन वा समेयान्निवर्तेतार्वाक्खल्वेतत्क्रोशादूर्ध्वं क्रोशादव्याघातुकमर्थस्य भवति
(१,२९.१) खलकुलैर्भुक्त्वानुराधाभिरभ्युदियात्सिद्धार्थो हैव पुनरागच्छति
(१,२९.२) ज्येष्ठं भक्तं भुक्त्वा ज्येष्ठयाभ्युदियान्मूलैर्भुक्त्वा मूलेनाभ्युदियाद्[[…. भुक्त्वा पूर्वाभिरषाढाभिरभ्युदियाद्]] रसैरुत्तराभिर्नवनीतेन पायसं भुक्त्वाभिजित्यभ्युदियाद्[[…. भुक्त्वा श्रवणेनाभ्युदियाद्]]
(१,२९.३) एतानि खलु पश्चिमद्वाराणि नक्षत्राणि भवन्ति
(१,२९.४) स यत्रैव प्रतीचीं दिशमभ्युत्थितः पाशहस्तेन वा जालहस्तेन वा मत्स्यबन्धेन वा समेयान्निवर्तेतार्वाक्खल्वेतत्क्रोशादूर्ध्वं क्रोशादव्याघातुकमर्थस्य भवति
(१,३०.१) विदलसूपेन भुक्त्वा श्रविष्ठाभिरभ्युदियात्सिद्धार्थो हैव पुनरागच्छति
(१,३०.२) शाकं शतभिषजि गोधा गव्यैर्मांसैर्भुक्त्वा पूर्वयोः प्रोष्ठपदयोरभ्युदियाद्रसैरुत्तरयोर्गृहिणीभक्तं भुक्त्वा रेवत्याभ्युदियादक्षतमाषैर्भुक्त्वाश्विन्योरभ्युदियात्तिलतण्डुलान् भक्षयित्वा भरणीभिरभ्युदियाद्
(१,३०.३) एतानि खलूदग्द्वाराणि नक्षत्राणि भवन्ति
(१,३०.४) स यत्रैवोदीचीं दिशमभ्युत्थितः पानहस्तेन वा किण्वहस्तेन वाक्षीवेण वा समेयान्निवर्तेतार्वाक्खल्वेतत्क्रोशादूर्ध्वं क्रोशादव्याघातुकमर्थस्य भवति
(१,३१.१) अथ राज्ञोऽभिप्रयाणस्यानयन्ति प्रदक्षिणमुखं श्वेतमजं ब्राह्मणं शुक्लवाससम् ॥
(१,३१.२) सुप्रतिष्ठितमविभ्रान्तं वृषभं शृङ्गिनं हरिम् । स चेन्नदति संसृष्टस्तामाहुः सिद्धिमुत्तमाम् ॥
(१,३१.३) गजं ध्वजं रथं छत्त्रं वर्म योधानलंकृतान् । भूषणानि च सर्वाणि प्रशस्तान्यायुधानि च ॥
(१,३१.४) वादित्राणि च सर्वाणि पताका विविधास्तथा । शुक्लाः सुमनसो लाजा अक्षता गौरसर्षपाः ॥
(१,३१.५) फलानि पूर्णपात्राणि धूपगन्धान् जलं तिलाः । अर्चयित्वा देवताः सर्वा ब्राह्मणान् प्रतिपूज्य च ॥
(१,३१.६) पुरोहितं पुरस्कृत्य सुहृदो मन्त्रिणस्तथा । एवं प्रयातो लभते विजयं नात्र संशयः ॥
(१,३१.७) कल्याणनामधेयं च गजमव्यङ्गदर्शनम् । कुमारीं दधिपात्रेण गृहीतेन स्वलंकृताम् ॥
(१,३१.८) यदि चेदधिगो जाल्मि सूर्याचन्द्रमसोर्गृहे । अश्विना रासभेन्द्रेण यानं कुर्यात्प्रदक्षिणम् ॥
(१,३२.१) प्रादक्षिण्यमग्नेर्गवां ब्राह्मणानां राज्ञो रथस्य [नरवाहनस्य शकटस्य] चतुर्युक्तस्य षड्युक्ताष्टयुक्तस्य च
(१,३२.२) ह्रदस्य दक्षिणावर्तस्य कुमारस्याभ्युत्थितस्य च । मनुष्यपूर्णपिटकस्य पृथिव्या उत्थितस्य च ॥ प्रबद्धस्यैकपशोः
(१,३२.३) उलूची कालशकुनिः क्षिप्रश्येनोऽथ वर्तिका । एते द्विजाः प्रादक्षिण्याश्चाषश्चात्र प्रदृश्यते ॥
(१,३२.४) क्रौञ्चनकुलप्रियवृक्षचैत्यानां नित्यं वयसाम् ॥
(१,३२.५) तिर्यग्न्यग्वाधिपतितं विपरीतं हीनाङ्गाङ्गातिरिक्तं विकृतनग्नमुण्डबण्डश्चित्रश्यामश्यावदन्तकुनखिजटिल[[ः]] काषायाविकयोश्[चर्मा]ब्राह्मणयोर्
(१,३२.६) एतेषां किं चिद्दृष्ट्वा न गच्छेद्
(१,३२.७) यदि गच्छेदर्थिनो यन्ति चेदर्थं गच्छानिद्ददुषो रातिम् । ववृज्युस्तृष्यतः काममित्येतां जपेत् ॥
(१,३२.८) नि षज्यतो दस्यूंश्छादयन्निन्द्रेति वा
(१,३२.९) स्तुहि श्रुतमिति वा
(१,३२.१०) देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु इति गर्दभमुखेन प्रतिनदति प्रतिलोमप्रतिकृत्यास्य
(१,३२.११) सर्वाश्च पापिका वाचो नेष्टा<ः> । कुचेलदर्शनं च । अनर्था हिंसार्थम् । तद्दर्शनाय । पापं वा जिहीर्षतां सिद्धिः ॥
(१,३३.१) अथ रोगपरिमाणान्य्
(१,३३.२) उत्तरास्वषाढासूत्तरयोः प्रोष्ठपदयोर्मासम् ।
(१,३३.३) रोहिण्यां विंशतिरात्रम् ।
(१,३३.४) पुनर्वसोरूनविंशतिरात्रं पूर्वाणि द्वन्द्विनाम् ।
(१,३३.५) मृगशिरसि षोडशरात्रमभिजिति श्रवणे च
(१,३३.६) आर्द्रायां पञ्चदशरात्रमनूराधाश्रविष्ठाभरणीषु च ।
(१,३३.७) पुष्ये द्वादशरात्रं हस्ते स्वातौ च ।
(१,३३.८) शतभिषजि नवरात्रं मासे वाकालं कुरुते ।
(१,३३.९) ज्येष्ठायां मूले चाष्टरात्रम् ।
(१,३३.१०) रेवत्यां सप्तरात्रम् ।
(१,३३.११) कृत्तिकाश्लेषा मघा उत्तरे फाल्गुन्यौ चित्रा विशाखे अश्वयुजौ च सप्तस्वेतेषु दशरात्रम् ॥
(१,३४.१) अथ बलयः
(१,३४.२) शुक्ल उपशुरसृपेशुक्लोसप्तमून्मोदनः । अष्टमः पललोदनो धानाः सक्तवोऽथ शष्कुली ॥
(१,३४.३) चित्रश्च कृकवाकुश्च शुक्लः कम्बूकपिण्डकः । सर्वबीजानि मूलानि उदपात्रं च पायसौ ॥
(१,३४.४) पशु घृतं कशीका च आर्द्रमांसानि पायसौ । पथ्यायां माषसक्तवः पायसोऽथ तिलोदनः ॥
(१,३४.५) सर्वत्र गन्धपुष्पाणि लाजानुलेपिकास्तथा । अनुद्वारं च नक्षत्रं दैवतं चात्र योजयेत् ॥
(१,३४.६) दीपाश्च मण्डले दीप्ताः शुचिश्चापि बलिं हरेत् । योऽस्मिन् यस्त्वा मातुरिति विपरिहरेत् ॥
(१,३५.१) सश्वेतसक्तु कंसश्च प्राचीनार्थस्य मङ्गलम् । स्रवं च मांसपेशी च दक्षिणार्थस्य मङ्गलम् ॥
(१,३५.२) कुमारी दधिकंसश्च प्रत्यगर्थस्य मङ्गलम् । अनड्वान् ब्रह्मचारी च उदगर्थस्य मङ्गलम् ॥
(१,३५.३) कुमारीं दधिपात्रेण गृहीतेन स्वलंकृताम् । प्रदक्षिणां तु तां कुर्याद्ध्रुवं स्यात्सिद्धिरिष्यते ॥
(१,३६.१) सेनां चेदभ्युत्थितां मन्द्रः प्रतिगर्जेद्राजा वामात्यो वा मरिष्यतीति विद्यात्तत्र वारुणीं जपेत् । उदुत्तमं वरुण पाशमिति ॥
(१,३६.२) सेनां चेदद्भ्युत्थितां धूमोऽनुगच्छेद्विजेष्यतीति विद्यात् । त्वेषस्ते धूम इत्यनुमन्त्रयेत् ॥
(१,३६.३) सेनां चेदभ्युत्थितां वातोऽनुवायाद्विजेष्यतीति विद्याद्वात आ वत्वित्यनुमन्त्रयेत् ॥
(१,३६.४) सेनां चेदभ्युत्थितां मृगो व्यभिमृशेदर्थं तस्या विनश्यतीति विद्यात् । मृगो न भीमः कुचरो गिरिष्ठा इत्यनुमन्त्रयेत् ॥
(१,३६.५) सेनां चेदभ्युत्थितां पक्षिणो व्यतिपतेयुर्मांसोदनं च तत्र दद्यात् । अलिक्लवा जाष्कमदा गृध्रा इत्यनुमन्त्रयेत् ॥
(१,३६.६) सेनां चेदभ्युत्थितां कपिञ्जलः प्रतिवदेद्भद्रं वदेति तिस्रः कापिञ्जलानि स्तवनानि वदन्ति ॥
(१,३६.७) यो अभ्यु बभ्रुणायसि स्वपन्तमत्सि पुरुषं शयानमगस्वलम् । अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्यस्मान् वरुणो दधद् ॥ इत्यभ्यवकाशे संविशति । अभ्यवकाशे संविशति ॥
(१,३७.१) अग्निर्देवो यज्वनः कृष्णवर्त्मा वैश्वानरो जातवेदा रसाग्रभुक् । स नक्षत्राणां प्रथमेन पावकः कृत्तिकाभिर्ज्वलनो नोऽनुशाम्यताम् ॥
(१,३७.२) प्रजापतिर्यः ससृजे प्रजा इमा देवान्त्स सृष्ट्वा विनियोज्[[य्]]अ कर्मसु । स सर्वभुक्सर्वयोगेषु रोहिणी शिवाः क्रियाः कृणुतां कर्मसिद्धये ॥
(१,३७.३) विद्याविदो ये अभिशोचमानवा अर्चन्ति शक्रं सह देवतागणैः । स नो योगे मृगशिरः शिवाः क्रियाः श्रेष्ठराजः कृणुतां कर्मसिद्धये ॥
(१,३७.४) देवं भवं पशुपतिं हरं कृशं महादेवं शर्वमुग्रं शिखण्डिनम् । सहस्राक्षमशनिं यं गृणन्ति स नो रुद्रः परिपातु न आर्द्रया ॥
(१,३७.५) ….या विप्रैः कविभिर्नमस्यते दाक्षायणी देवपुरादिभिर्नृभिर् । सा नः स्तुता प्रथमजा पुनर्वसुः शिवाः क्रियाः कृणुतां कर्मसिद्धये ॥
(१,३८.१) यस्य देवा ब्रह्मचर्येण कर्मणा महासुरं तिग्मतयाभिचक्रिरे । तं सुबुधं देवगुरुं बृहस्पतिमर्चामि पुस्येण सहाभिपातु मा ॥
(१,३८.२) या न[[ः]] स्तुतः परिहिणोमि मेधया तप्यमानमृषिभिः कामशोचिभिः । जरत्कारसूनोरृषिभिर्मनीषिभिस्ता अश्लेषा अभिरक्षन्तु नोरगैः ॥
(१,३८.३) ये देवत्वं पुण्यकृतोऽभिचक्रिरे ये चापरे ये च परे महर्षयः । अर्चामि सूनुर्यमराजगान् पितॄंश्छिवाः क्रियाः कृणुतां च नो मघा ॥
(१,३८.४) यो योजयन् कर्मणा चर्षणीधृतो भूमिं चेति भग[[ः प्रजाः]] प्रसादयन् । तद्देवत्ये शिवतमामलंकृते फल्गुन्योरीडे भजनं च पूर्वयोः ॥
(१,३८.५) स्तुतं पूर्वैरर्यमणं मनीषिभिः स्तौमि देवं जगति वाचमेरयन् । तद्देवत्ये शिवतमामलंकृते फल्गुन्यौ न उत्तरे देवतातये ॥
(१,३९.१) श्[य्]आवैर्युक्तः शितिपाद्धिरण्ययो यस्य रथः पथिभिर्वर्तते सुखैः । स नो हस्तेन सविता हिरण्यभुग्घिरण्यपाणिः सविता [नो]ऽभिरक्षतु ॥
(१,३९.२) त्वष्ट्रे नमः क्षितिसृजे मनीषिणे भूतगोप्त्रे परमकर्मकारिणे । सा न[[ः]] स्तुता कृणुतां कर्मसिद्धये चित्रां देवी सह योगेन रूपभृत् ॥
(१,३९.३) यः प्राणिनां जीवयन् खानि सेवते शिवो भूत्वा मातरिश्वा रसाग्रभुक् । ध्वजोऽन्तरिक्षस्य स सर्वभूतभृद्वायुर्देवः स्वातिना नोऽभिरक्षतु ॥
(१,३९.४) यावीडितावात्मविद्भिर्मणीषिभिः सहितौ [यौ] त्रीणि सवनानि सामगौ । इन्द्राग्नी वरदौ नमस्कृतौ विशाखयोः कुर्वतामायुषे श्रीः ॥
(१,३९.५) विश्वे देवा यमृषिमाहुर्मित्रं भरद्वाजमृषितः प्रसामवित् । तं जगत्या गाथया स्तौम्युग्रैः स मामनूराधाभिर्[भृतकण्वो]ऽभिरक्षतु ॥
(१,४०.१) शतक्रतुर्यो निजघान शम्बरं वृत्रं च हत्वा सरितः प्रसर्जत[ः] । स नः स्तुतः प्रीतमनाः पुरंदरो मरुत्सखा ज्येष्ठया नोऽभिरक्षतु ॥
(१,४०.२) या धारयत्योजसातिदेवपदं माता पृथिवी च सा सर्वभूतभृत् । सा न[[ः]] स्तुता कृणुतां कर्मसिद्धये मूलं देवी निरृतिः सर्वकर्मसु ॥
(१,४०.३) पर्जन्यसृष्टास्तिसृणीभिरावृतं यास्तर्पयन्त्यभितः प्रवृद्धये । ता[[ः]] स्तौम्यापो वारुणीः … पूर्वा आषाढा स्वधयास्तु योजने ॥
(१,४०.४) यास्त्रिंशतं त्रींश्च मदन्ति देवा देवनाम्नो निर्मिता[[ं]]श्च भूयसः । ता नोऽषाढा उत्तरा वसो विश्वे [[शिवाः]] क्रियाः कृणुतां सुरमताः ॥
(१,४०.५) यः सर्वज्ञः सर्वकृत्सर्वभूतभृद्यस्मादन्यन्न परं किं चनास्ति । अनिर्मितः सत्यजितः पुरुष्टुतः स नो ब्रह्माभिजिता नोऽभिरक्षतु ॥
(१,४१.१) स्थानाच्युते स्थानमिन्द्राय पातवे देवेभ्यश्च य ईरयंस्[त्रिर्] विचक्रमे । तं स्विद्धि स्वर्गं नाकपृष्ठं विश्वं विष्णुर्देवः श्रवणेनाभिरक्षतु ॥
(१,४१.२) अष्टौ शतानि श्वेतकेतूनां यानि त्वं च स त्वं निजघान भूयसः । अनादेशेनोभय[त]श्च वीडिताः श्रविष्ठाभिर्नोऽभिरक्षन्तु वाजिनः ॥
(१,४१.३) वाजा देवी देवमृणानिकाकुभावुभावाजस्य नतकर्मणा शिवा । तव व्राजं स्तौमसि देवभोजनौ प्रत्यग्भिषक्शतभिषक्शिवौ नः ॥
(१,४१.४) शुनासीरौ नः प्रमुमूतु जिह्मसौ तौतौ पितृभ्यो ददतु[[ः]] स्तनौ शुभौ । तौ पूर्वजौ कृणुतामेकपादजः प्रतिष्ठानौ सर्वकामाभयाय च ॥
(१,४०.५) सर्वार्थाय कृणोमि कर्मसिद्धये गविष्टुतायानेककारिणे नमः । सोऽहिर्बुध्न्यः कृणुतामुत्तरौ शिवौ प्रतिष्ठानौ सर्वकामाभयाय च ॥
(१,४१.६) यं महाहेममृषितः प्रसामविद्भरद्वाजश्चन्द्रमसौ दिवाकरम् । सजुष्टानामश्वयुजौ भयाय च स नः पूषा कृणुतां रेवतीं शिवाम् ॥
(१,४१.७) जीर्णं सन्तं यौ युवानं हि चक्रतुरृषिं धिया च्यवनं सोमपौ कृतौ । तौ नश्चित्तिभिर्भिषजामस्य सत्करौ …. प्रजामश्विन्यामश्विनौ शिवौ ॥
(१,४१.८) यस्य श्यामशबलौ रक्षतः स्वधा दुष्कृत्सुकृद्विविधा चर्षणीधृतौ । तौ सवित्र्या च सवितुर्धर्मचारिभिर्यमो राजा भरणीभिर्नोऽभिरक्षतु ॥
(१,४२.१) अथ नक्षत्रस्नानानां विधिं वक्ष्यामि सांपदम् । ग्रहदैवतपूजां च येषु यत्र यथाविधि ॥
(१,४२.२) नक्षत्रयोगकालज्ञः कृत्वा तन्त्रं यथाविधि । यजेद्ग्रहान् हविष्येण यथोक्तेन च देवताः ॥
(१,४२.३) प्रशस्तलक्षणं कुम्भं ससंभारजलं बुधः । संपाताभिहितं कृत्वा मन्त्रैर्विधिमनुस्मरन् ॥
(१,४२.४) सावित्र्या शान्तिसूक्तैश्च महाव्याहृतिभिस्तथा । अपां स्तोत्रैः पवित्रैश्च नक्षत्रस्तुतिभिस्तथा ॥
(१,४२.५) नक्षत्रदैवतान्मन्त्रान् प्रतिनक्षत्रमावपेत् । काम्यांश्चैवावपेन्मन्त्रान् कर्मलिङ्गविधानवित् ॥
(१,४२.६) संपात्याथाभिमन्त्र्य वा नक्षत्रस्नानकोविदः । स्नापयेदर्थिनं वाग्भिः पुण्याभिरभिमन्त्रितम् ॥
(१,४२.७) एष एव विधिर्दृष्टः सदस्येभ्यश्च दक्षिणा । पूर्वमाप्याययेद्देहं पश्चाद्दद्यात्तु दक्षिणाम् ॥
(१,४२.८) अनेन विधिना स्नात्वा दद्याच्चैवात्र दक्षिणाम् । प्राप्नोत्यनुनयं पुंसः स वेदफलमश्नुते ॥ [प्राप्नोत्य्प्राप्णोत्येद्. (मिस्प्रिन्त्)]
(१,४२.९) आत्मानं निर्मलीकृत्य देवानिष्ट्वा ग्रहांस्तथा । विद्वद्भ्यो दक्षिणा देया द्विजानन्नेन तर्पयेत् ॥
(१,४३.१) कृत्तिकाभिः शिरीषस्य अश्वत्थस्य वटस्य च । स्नापयेत्पत्त्रभङ्गेन य इच्छेद्राजपूजितम् ॥
(१,४३.२) रोहिण्यां स्नापयेद्वैश्यं सर्वबीजैरलंकृतम् । अक्षतानन्तरं कृत्वा तथा सौभाग्यमर्हति ॥
(१,४३.३) यदा मृगशिरो युज्येत्तदा स्नानं विधीयते । मुक्तामणिसुवर्णेन धनार्थी तेन स्नापयेत् ॥
(१,४३.४) श्रीवेष्टकसर्जरसतगरोशीरपत्त्रकैः । आर्द्रायां वणिजः स्नाताः सुलाभांस्तु लभन्ति ते ॥
(१,४३.५) पुनर्वसुभ्यां गोमार्गादाहरेदग्रमृत्तिकाम् । गोपीठे स्नापयेद्गोऽर्थी क्षिप्रं गोमान् भविष्यति ॥
(१,४३.६) रक्तशालिसहस्रेण तावद्भिर्गौरसर्षपैः । सहस्रवीर्यानन्त्या च मदयन्तीप्रियङ्गुभिः । त्रीन् पुष्यान् ब्राह्मणः स्नातः पार्थिवं लभते यशः ॥
(१,४३.७) अश्लेषास्वाहारयेदुभयतः कूलमृत्तिकाः । [अश्व्]आरोहं स्नापयेत्तेन क्षिप्रवाही भविष्यति ॥
(१,४३.८) मघाभिस्तु तिलैः स्नायादुत्पलैः कमलैस्तथा । तस्मिंस्तु मासे सा कन्या क्षिप्रं च लभते पतिम् ॥
(१,४३.९) अथ पूर्वयोः फल्गुन्योः शतपुष्पा प्रियङ्गवः । मध्वेव च तृतीयं स्यात्सौभाग्यं भोगवर्धनम् ॥
(१,४३.१०) अथोत्तरयोः फल्गुन्योरक्षता गौरसर्षपाः । एतत्स्नानं प्रयुञ्जीत प्रजास्थापनमुत्तमम् ॥
(१,४४.१) हस्तेन सर्वकारूणां चौराणां चापि नित्यशः । नदीगिरितटाकेषु मृत्तिकास्नानमुत्तमम् ॥
(१,४४.२) चित्रायां चित्रमाल्यैस्तु सर्वगन्धैरलंकृतम् । योषार्थी स्नापयेत्तेन क्षिप्रं स लभते प्रियाम् ॥
(१,४४.३) स्वातिना तु गन्धैः स्नायादुत्पलैः कुमुदैस्तथा । तस्मिंस्तु मासे सा कन्या क्षिप्रं निर्व्यूह्यते ततः ॥
(१,४४.४) खड्गस्य च विषाणेन गजस्य ऋषभस्य वा । विशाखाभ्यामभिषिक्तो [राजा] पृथिवीमभिशासयेत् ॥
(१,४४.५) अनूराधास्वाहारयेद्वल्मीकशतमृत्तिकाः । कर्षणं स्नापयेत्तेन धनधान्येन वर्धते ॥
(१,४४.६) ज्येष्ठायां ज्यैष्ठ्यकामं तु अभिषिञ्चेत्पुरोहितम् । रसैश्च मिश्रधान्यैश्चाभिषिक्तः प्राशयेद्रसान् ॥
(१,४४.७) मूलेन सर्वतोभद्रमुपविष्टा वरवर्णिनी । शमीपत्त्रसहस्रेण स्नानात्पुत्रं प्रसूयते ॥
(१,४४.८) अथ पूर्वास्वषाढासु या स्नायादहते पटे । जातरूपेण कल्याणी भोगं भुङ्क्ते पतिप्रिया ॥
(१,४४.९) अथोत्तरास्वषाढासु यः स्नायाच्चेदुपोषितः । महाह्रद उशीरेण दासीदासेन वर्धते ॥
(१,४४.१०) वचयोत्पलकुष्ठैश्च ब्राह्मी सिद्धार्थकैस्तथा । अभिजिद्ब्राह्मणः स्नातः पार्थिवं लभते यशः ॥
(१,४५.१) श्रवणेन स्रवन्तीनां यः स्नायात्संगमेषु च । स संगच्छति स्वर्णेन हिरण्येन धनेन वा ॥
(१,४५.२) श्रविष्ठाभिर्धनकामं [तु] स्नापयेद्यत्र चन्दनैः । एतत्स्नानं प्रयुञ्जानो धनधान्येन वर्धते ॥
(१,४५.३) शतभिषग्भिषक्कामोऽभिषिञ्चेच्छान्तिकर्मसु । सोऽभिषिक्तो हतपाप्मा सर्वरोगैः प्रमुच्यते ॥
(१,४५.४) [अथ] पूर्वयोः प्रोष्ठपदयो रोचनयाञ्जनेन च । स्नाता गजविषाणेन राजानं जनयेत्सुतम् ॥
(१,४५.५) अथोत्तर[योः] प्रोष्ठपदयोः प्रसन्नापद्मकं मधु । गन्धर्वं स्नापयेत्तेन राजवाही भविष्यति ॥
(१,४५.६) खड्गस्य च विषाणेन जलेन मधुसर्पिषा । रेवत्यां क्षत्रियः स्नातो [राजा] पृथिवीमभिशासते ॥
(१,४५.७) अश्विन्यां स्वस्तिकं माल्यं मदयन्तीप्रियङ्गुभिः । रूपाजीवायास्तत्स्नानं सौभाग्यं भोगवर्धनम् ॥
(१,४५.८) भरणीभिर्भद्रमुस्तैस्त्वेलासिद्धर्थकैस्तथा । स्नाता पतिकुलं गच्छेदसपत्नमकण्टकम् ॥
(१,४६.१) सर्वज्ञः सर्वग शंस नारद प्रज्ञानमन्यस्मादनूनप्रज्ञात्स्वर्गस्य लोकस्य देहाद्यैर्यात्पथिभिरुपपन्नो मनुष्यः ॥
(१,४६.२) उपोषितः शुचिशीलः पुण्यगन्धो यदा भवेत् । प्रागस्तंगमनभोजनाद्यदेनं नित्यमतन्द्रितः ॥
(१,४६.३) समयाचारपूर्वाभिः कर्मसिद्धिः प्रशस्यते । [तं] कामदुघं स्वर्गकामः परेत्य प्रतिपद्यते ॥
(१,४७.१) कृत्तिकाभिः पायसं सर्पिषा सह भोजयेत् । [तं] कामदुघं स्वर्गकामः परेत्य प्रतिपद्यते ॥
(१,४८.१) रोहिण्यामक्षतैर्माषैः सर्पिर्मिश्रं सहौदनम् । दुग्धान्नपान[[ं]] मंहेत सोऽक्षतो यमसादने ॥
(१,४८.२) मृगशिरसि मंहेत अजां धेनुं पयस्विनीम् । सास्मै सर्वान् कामान् दुग्ध्[व्]आ एति पूर्वा पयस्विनी ॥
(१,४८.३) आर्द्रायां कृसरं दद्यात्तैलमिश्रमुपोषितः । पुनर्वसुभ्यां मंहेत मध्वपूपांस्त्वनुत्तमान् ॥
(१,४८.४) रुक्मं पुष्येण मंहेत सोऽक्षतो यमसादने । अश्लेषा रजतं दद्यात्सौरभेयेण प्रेषितः ॥
(१,४८.५) सर्पान्निर्हन्ति प्रेतस्य परिपन्थि सुखाद्भयात् । मघाभिस्तु तिलान् दद्यान्मधुमिश्रान् स्मरन् पितॄन् ॥
(१,४८.६) कामैस्तत्रोपतिष्ठन्ति अमी ये सोमयाजिनः । [फाणितेनेष्टका मिश्रा दद्यात्पूर्वयोः फल्गुन्योर्मधुनोत्तरयोः ॥]
(१,४८.७) पूर्वोत्तरयोः फल्गुन्योर्दुहते मधुफाणिते ॥
(१,४९.१) बृहद्धस्तिरथं युक्तं हस्तेन तु ददन्नरः । सवितुः स्थानमाप्नोति दिव्यां कामजवां सभाम् ॥
(१,४९.२) चित्रायां वृषलीं दद्यात्सर्वपुष्पैरलंकृताम् । गन्धैः शुश्रूषमाणस्तु ध्रुवे स्थाने [सुगन्धिः] प्रपद्यते ॥
(१,४९.३) स्वातावेकधनं दद्याद्यद्यदस्य प्रियं गृहे । असज्जमानो गच्छेत अशरीरो यथा मनः ॥
(१,४९.४) धेनुं तु रूपसंपन्नामनड्वाहौ तु वा वहौ । विशाखाभ्यां मधुमन्थं प्रापयेत्स्थानमुत्तमम् ॥
(१,४९.५) अनूराधासु प्रावरणमन्नं तु शुचि ज्येष्ठायां च । दद्याच्चान्नं ब्राह्मणेभ्यो भक्षैरुच्चावचैः सह ॥
(१,४९.६) सुरा[[ं]] मूलेन मंहेताब्राह्मणीभ्य उपोषितः । मातुस्तेनानृणो भवति संकराच्च विमुच्यते ॥
(१,४९.७) उदमन्थमषाढासु पूर्वासु मधुनोत्तरम् ॥
(१,४९.८) अभिजिद्दुहितरं दद्यान्मधुपर्कपुरोगमाम् । उत्तमे ब्रह्मणः स्थाने सर्वकामैः प्रमोदते ॥
(१,५०.१) कम्बलं श्रवणे दद्याद्वस्त्रान्तरमुपोषितः । श्रविष्ठाभिर्वस्त्रयुगं गन्धान् शतभिषग्भवेत् ॥
(१,५०.२) अजं संपच्योदनं दद्यात्पूर्वयोः प्रोष्ठपदयोरौरभ्रेण सहोत्तरयोः ॥
(१,५०.३) धेनुं च रूपसंपन्नां गौर्गृष्टिः पूर्णदोहनीम् । रेवत्यां त्रिवत्सां दद्याच्छुभकांस्योपदोहिनीम् ॥
(१,५०.४) वस्त्रेणानड्वाहौ [सं]बद्ध्वा दद्यादश्वयुजो<र्> नरः । दश वर्षसहस्राणि लोम्निलोम्नि महीयते ॥
(१,५०.५) अष्टौ वर्षसहस्राणि अजधेन्वा पयोऽश्नुते । दश वर्षसहस्राणि गोधेन्वा पयोऽश्नुते ॥
(१,५०.६) अनड्वाहं तु यो दद्यात्सुहृदं साधुवाहिनम् । वीरं प्रजानां भर्तारं प्राप्नोति दशधेनुदम् ॥
(१,५०.७) [यदा वत्सस्य पादौ द्वौ शिरस्चापि प्रदृश्यते । तदा गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥]
(१,५०.८) भरणीभिः कृष्णतिलां दद्यात्[तिल]धेनुं पयस्विनीम् । तया दुर्गाणि तरति क्षुरधारांश्च पर्वतान् ॥
(१,५०.९) नक्षत्राणां यथा सोमो ज्योतिषामिव भास्करः । भाति दिव्यं दिवं ज्योतिः पावकः शुचिरुत्तमः ॥
(१,५०.१०) एवमुक्तां नक्षत्रदक्षिणां यो ददातीह जीवलोके । [[अ]]पहत्य तमः सर्वं ब्रह्मलोके महीयते । यथा यष्टुस्तथाध्येतुरेषा ब्राह्मी प्रतिश्रुतिरेषा ब्राह्मी प्रतिश्रुतिरिति ॥
(परिशिष्ट_१ . [कृत्तिकारोहिणीमध्ये पैप्पलादा मन्त्राः])
(१ ,१.१) ओं यद्राजानं शकधूमं नक्षत्राण्यकृण्वत । भद्राहमस्मै प्रायच्छन् ततो राष्ट्रमजायत ॥
(१ ,१.२) भद्राहमस्तु नः सायं भद्राहं प्रातरस्तु नः । भद्राहमस्मभ्यं त्वं शकधूम सदा कृणु ॥
(१ ,१.३) यो नो भद्राहमकरः सायं प्रातरथो दिवा । तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥
(१ ,१.४) यदाहुः शकधूम[[ं]] महानक्षत्राणां प्रथमजं ज्योतिरग्रे । तन्नः शतीमभिकृणोतु रयिं च नः सर्ववीरं नियच्छात् ॥
(१ ,१.५) योऽस्मिन् यक्ष्म[[ः]] पुरुषे प्रविष्ट इषितं दैव्यं सहः । अग्निष्टं घृतबोधनोऽपस्कन्द नो विदूरमस्मत्सोऽन्येन समृच्छात् ॥ तस्मै प्रसुवामसि ॥
(१ ,१.६) यस्त्वा मातुरुत वा पितुः परिजायमानमभिसंबभूव । न त्वद्यमधिनासयाम सोऽन्यस्मै सयातैः प्रविष्टः ॥
(१ ,१.७) अलिक्लवा गृध्राः कङ्काः सुपर्णाः श्वापदाः पतत्रिणो वयांसि शकुनयोऽमुष्यामुस्यायणस्यामुष्याः पुत्रस्यादहने चरन्तु ॥
कृत्तिकारोहिणीमध्ये पैप्पलादा मन्त्राः ॥

