श्री शिव उवाच – 
शृणु देवि ! प्रवक्ष्यामि अप्रकाश्यं महीतले । 
श्रुत्वा पठित्वा कवचं सर्वसिद्धिमवाप्नुयात् ॥ १॥ 
॥ अथ दुर्गाकवचम् ॥ 
पार्वती मस्तकं पातु कपालं जगदम्बिका । 
कपालञ्चापि गण्डञ्च दुर्गा पातु महेश्वरि ॥ २॥ 
विश्वेश्वरी सदा पातु नेत्रञ्च शिवसुन्दरी 
कर्णौ नारायणी पातु मुखं नील-सरस्वती ॥ ३॥ 
कण्ठं मे विजया पातु वक्षोमूलं शिव प्रिया । 
नाभिदेशं जगद्धात्री जगदानन्द-वल्लभा ॥ ४॥
 हृदयं चण्डिका पातु बाहू परम-देवता । 
केशांश्च पञ्चमी विद्या सभायां पातु भैरवी ॥ ५॥ 
नित्यानन्दा यशः पातु लिङ्गं लिङ्गेश्वरी सदा । 
भवानी पातु मे पुत्रं पत्नीं मे पातु दक्षजा ॥ ६॥ 
कामाख्या देह-कमलं पातु नित्यं नभोगतम् । 
महाकुण्डलिनी नित्यं पातु मे जठरं शिवा ॥ ७॥
 
वह्निजाया सदा यज्ञं पातु कर्म स्वधा पुनः । 
अरण्ये विजने पातु दुर्गा देवी रणे वने । 
जले पातु जगन्माता देवी त्रिभुवनेश्वरी ॥ ८॥
इत्येवं कवचं देवि दुर्ज्ञेयं राजमोहनम् । 
जपेन्मत्रं क्षितितले वश्यं याति महीपतिः ॥ ९॥ 
पूजया वरया भक्त्या क्रियया च विना शिवे ! । 
केवलं जपमात्रेण सिद्ध्यत्येव न संशयः ॥ १०॥ 
या पृच्छा ते निगदिता कथिता वरवर्णिनि ! । 
इदानीं देवदेवेशि ! किं भूयः श्रोतुमिच्छसि ॥ ११॥ 
॥इति मुण्डमालातन्त्रे पार्वतीश्वर-संवादे षष्ठं पटलान्तर्गतं द्वितीयं श्रीदुर्गाकवचं सम्पूर्णम् ॥ 

