Spread the love

ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च ।
गुरश्च शुक्रः शनि-राहु-केतवः कुर्वन्तु सर्वे मम सुप्रभातम् ॥

आधारे प्रथमे सहस्रकिरणं ताराधवं स्वाश्रये
माहेयं मणिपूरके हृदि बुधं कण्ठे च वाचस्पतिम् ।
भ्रूमध्ये भृगुनन्दनं दिनमणेः पुत्रं त्रिकूटस्थले
नाडीमर्मसु राहु-केतु-गुलिकान्नित्यं नमाम्यायुषे ॥

आरोग्यं प्रददातु नो दिनकरः चन्द्रोयशो निर्मलं
भूतिं भूमिसुतो सुधांशुतनयः प्रज्ञां गुरुर्गौरवम् ।
काव्यः कोमलवाग्विलासमतुलं मन्दो मुदं
सर्वदा राहुर्बाहुबलं विरोधशमनं केतुः कुलस्योन्नतिम् ॥

ॐ सूर्यः शौर्यमथनेन्दुरुच्चपदवीं, सन्मङ्गलं मङ्गलः ।
सद्बुद्धिं च बुधो गुरुश्च गुरुतां, शुक्रः सुखं शं शनिः ।
राहुर्बाहुबलं करोतु विपुलं, केतुः कुलस्योन्नतिम् ।
नित्यं प्रीतिकरा भवन्तु भवतां, सर्वे प्रसन्ना ग्रहाः ॥

ॐ आदित्यादि नवग्रह देवताभ्यो नमो नमः ॥



॥ इत्येकश्लोकी नवग्रहस्तोत्रं समाप्तम् ॥