Spread the love

नवग्रहों के पौराणिक ध्यान ही प्रचलित हैं. यहाँ नवग्रहों के तंत्र ग्रंथों में दिए गये ध्यान और उनकी प्रमुख गायत्री दी जा रही है.

अथ सूर्यस्य ध्यानं –
प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् ।
सप्ताश्वगं सद्ध्वजहस्तमाद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥ १॥ (त्रिपुरासर्वस्व) सूर्य के ध्वज पर अश्व है.

गायत्री-
1-ॐ आदित्याय च विद्महे सहस्रकिरणाय धीमहि तन्नो भानुः प्रचोदयात् ॥
2-ॐ आदित्याय च विद्महे मार्तण्डाय च धीमहि तन्नो भानुः प्रचोदयात् ॥
3-ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥

अथ चन्द्रस्य ध्यानं –
शङ्खप्रभमेणप्रियं शशाङ्कमीशानमौलिस्थितमीड्यवृत्तम् ।
तमीपतिं नीरजयुग्महस्तं ध्याये हृदब्जे शशिनं ग्रहेशम् ॥ २॥ (निःसृतमागम) ध्वज पर मृग है

गायत्री-
1-ॐ सोमात्मजाय विद्महे अमृततत्त्वाय धीमहि तन्नः सोमः प्रचोदयात् ॥
2-ॐ निशाकराय विद्महे कलानाथाय धीमहि तन्नः सोमः प्रचोदयात् ॥
3-ॐ क्षीरपुत्राय विद्महे महाकालाय धीमहि तन्नश्चन्द्रः प्रचोदयात् ॥

अथ भौमस्य ध्यानं –
प्रतप्तगाङ्गेयनिभं ग्रहेशं सिंहासनस्थं कमलासिहस्तम् ।
सुरासुरैः पूजितपादपद्मं भौमं दयालुं हृदये स्मरामि ॥ ३॥ (आगमामृतमञ्जरी) मंगल के ध्वज पर हनुमान हैं या मेढ़ा है.
गायत्री-
1-ॐ अङ्गारकाय विद्महे शक्तिहस्ताय धीमहि तन्नो भौमः प्रचोदयात् ॥
2-ॐ चित्रिपुत्राय विद्महे लोहिताङ्गाय धीमहि तन्नो भौमः प्रचोदयात् ॥

अथ सौम्यस्य ध्यानं –
सोमात्मजं हंसगतं द्विबाहुं शङ्खेन्दुरूपं ह्यसिपाशहस्तम् ।
दयानिधिं भूषणभूषिताङ्गं बुधं स्मरे मानसपङ्कजेऽहम् ॥ ४॥ (भैरवतन्त्र) बुध के ध्वज पर गज है.

गायत्री-
1-ॐ चन्द्रपुत्राय विद्महे रोहिणी प्रियाय धीमहि तन्नो बुधः प्रचोदयात् ॥
2-ॐ सौम्यरूपाय विद्महे वाणेशाय धीमहि तन्नो बुधः प्रचोदयात् ॥
3-ॐ सोमात्मजाय विद्महे सिंहरूपाय धीमहि तन्नः बुधः प्रचोदयात् ॥

अथ जीवस्य ध्यानं –
तेजोमयं शक्तित्रिशूलहस्तं सुरेन्द्रज्येष्ठैः स्तुतपादपद्मम् ।
मेधानिधिं हस्तिगतं द्विबाहुं गुरुं स्मरे मानसपङ्कजेऽहम् ॥ ५॥ (भैरवतन्त्र) इनके ध्वज पर वृषभ है.

गायत्री-
1-ॐ अङ्गिरसाय विद्महे दण्डायुधाय धीमहि तन्नो जीवः प्रचोदयात् ॥
2-ॐ सुराचार्याय विद्महे वाचस्पतये च धीमहि तन्नो गुरुः प्रचोदयात् ॥

अथ शुक्रस्य ध्यानं –
सन्तप्तकाञ्चननिभं द्विभुजं दयालुं पीताम्बरं धृतसरोरुहद्वन्द्वशूलम् ।
क्रौञ्चासनं ह्यसुरसेवितपादपद्मं शुक्रं स्मरे द्विनयनं हृदि पङ्कजेऽहम् ॥ ६॥ कुब्जिकासर्वस्व) इनके ध्वज पर अश्व है.

गायत्री –
1-ॐ भृगुसुताय विद्महे दिव्यदेहाय धीमहि तन्नः शुक्रः प्रचोदयात् ॥
2-ॐ भार्गवाय च विद्महे दानवार्चिताय धीमहि तन्नः शुक्रः प्रचोदयात् ॥

अथ शनेर्ध्यानं –
शुभदमागमामृते नीलाञ्जनाभं मिहिरेष्टपुत्रं ग्रहेश्वरं पाशभुजङ्गपाणिम् ।
सुरासुराणां भयदं द्विबाहुं शनिं स्मरे मानसपङ्कजेऽहम् ॥ ७॥ इनके काग ध्वज पर है.

गायत्री –
1-ॐ शनैश्चराय विद्महे सूर्यपुत्राय धीमहि तन्नो मन्दः प्रचोदयात् ॥
1-ॐ नीलाञ्जनाय विद्महे सूर्यपुत्राय धीमहि तन्नः शनैश्चरः प्रचोदयात् ॥

अथ सैंहिकेयस्य ध्यानं –
वामकेश्वर तन्त्रे शीतांशुमित्रान्तकमीड्यरूपं घोरं च वैडुर्यनिभं विबाहुम् ।
त्रैलोक्यरक्षाप्रदंमिष्टदं च राहुं ग्रहेन्द्रं हृदये स्मरामि ॥ ८॥ राहु के ध्वज पर नाग है

अथ केतोश्च ध्यानं –
तन्त्रसागरे लाङ्गुलयुक्तं भयदं जनानां कृष्णाम्बुभृत्सन्निभमेकवीरम् ।
कृष्णाम्बरं शक्तित्रिशूलहस्तं केतुं भजे मानसपङ्कजेऽहम् ॥ ९॥ ॥ केतु के ध्वज पर अश्व है

गायत्री-
1-ॐ गदाहस्ताय विद्महे अमृतेशाय धीमहि तन्नः केतुः प्रचोदयात् ॥
2-ॐ धूम्रवर्णाय विद्महे विकृताननाय धीमहि तन्नः केतुः प्रचोदयात्



इति नवग्रहध्यानं सम्पूर्णम् ॥