॥ श्रीबुधाष्टोत्तरशतनामस्तोत्रम्॥
बुध बीज मन्त्र – ॐ ब्राँ ब्रीं ब्रौं सः बुधाय नमः 
बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः । 
दृढव्रतो दृढबल श्रुतिजालप्रबोधकः ॥ १॥ 
सत्यवासः सत्यवचा श्रेयसाम्पतिरव्ययः । 
सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥ २॥ 
वेदविद्वेदतत्त्वज्ञो वेदान्तज्ञानभास्करः । 
विद्याविचक्षण विदुर् विद्वत्प्रीतिकरो ऋजः ॥ ३॥
 विश्वानुकूलसञ्चारी विशेषविनयान्वितः ।
 विविधागमसारज्ञो वीर्यवान् विगतज्वरः ॥ ४॥ 
त्रिवर्गफलदोऽनन्तः त्रिदशाधिपपूजितः । 
बुद्धिमान् बहुशास्त्रज्ञो बली बन्धविमोचकः ॥ ५॥ 
वक्रातिवक्रगमनो वासवो वसुधाधिपः ।
 प्रसादवदनो वन्द्यो वरेण्यो वाग्विलक्षणः ॥ ६॥
 सत्यवान् सत्यसंकल्पः सत्यबन्धिः सदादरः । 
सर्वरोगप्रशमनः सर्वमृत्युनिवारकः ॥ ७॥ 
वाणिज्यनिपुणो वश्यो वातांगी वातरोगहृत् ।
 स्थूलः स्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः ॥ ८॥ 
अप्रकाशः प्रकाशात्मा घनो गगनभूषणः । 
विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥ ९॥ 
चारुशीलः स्वप्रकाशो चपलश्च जितेन्द्रियः । 
उदऽग्मुखो मखासक्तो मगधाधिपतिर्हरः ॥ १०॥
 सौम्यवत्सरसञ्जातः सोमप्रियकरः सुखी ।
 सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवंकरः ॥ ११॥ 
पीताम्बरो पीतवपुः पीतच्छत्रध्वजांकितः । 
खड्गचर्मधरः कार्यकर्ता कलुषहारकः ॥ १२॥ 
आत्रेयगोत्रजोऽत्यन्तविनयो विश्वपावनः । 
चाम्पेयपुष्पसंकाशः चारणः चारुभूषणः ॥ १३॥ 
वीतरागो वीतभयो विशुद्धकनकप्रभः । 
बन्धुप्रियो बन्धयुक्तो वनमण्डलसंश्रितः ॥ १४॥ 
अर्केशानप्रदेषस्थः तर्कशास्त्रविशारदः । 
प्रशान्तः प्रीतिसंयुक्तः प्रियकृत् प्रियभाषणः ॥ १५॥ 
मेधावी माधवासक्तो मिथुनाधिपतिः सुधीः । 
कन्याराशिप्रियः कामप्रदो घनफलाश्रयः ॥ १६॥ 
बुधस्येवम्प्रकारेण नाम्नामष्टोत्तरं शतम् । 
सम्पूज्य विधिवत्कर्ता सर्वान्कामानवाप्नुयात् ॥ १७॥ ॥ 
इति बुध अष्टोत्तरशतनामस्तोत्रम् ॥

